एहि रे समर्पयेम
एहि रे समर्पयेम मित्र ! मातृचरणयोः
तनुतृणं धनचयं, भवतु रुधिरतर्पणम् ।
किं नु पश्यसि त्वदीय-मातृ-वदन-म्लानतां
किमु ह्रिया, त्यज भियं, विक्लवः किमर्पणे ॥ १॥
मलयमारुतस्त्वदीयस्वागतं विधास्यति
सनातनी परम्परा प्रेरिका भविष्यति ।
भवेम धन्यजीविनः समानचिन्तका वयं
चल पुरः, सह मया, समाश्रय ध्रुवां धृतिम् ॥ २॥
वीरसूः शूरभूः स्थैर्यधैर्यभूरियं
सखे न भीरुभूरियं न भोगलालसास्पदम् ।
नरोऽप्यवाप्तुमर्हतीह देवतासमानतां
स्मर चिरं, भर धियं, साधयेम विक्रमम् ॥ ३॥
राष्ट्रमुद्धर्तुमेहि ध्येयसाधनव्रत !
मन्युरस्तु बलिपशुः कार्यदीक्षितो भव ।
धर्मसक्त कर्मनिष्ठ ॠषिकुलोद्भव सखे
धर धुरं, दृढमते, याम ध्येयसिद्धये ॥ ४॥
- जनार्दन हेगडे
Encoded and proofread by Shubha shubhazero at gmail.com