एहि एहि चन्दिर
एहि एहि चन्दिर
श्वेतकिरण ! सुन्दर !
नीलगगनमन्दिर !
सकलजनमनोहर !
तारकेश ! गिरिगुहासु
किरणजालमातनु
वितर सस्य-तरु-लतासु
किरणजालमातनु
वितर सस्य-तरु-लातसु
रसविशेषमादरात् ॥
मातरः प्रदर्शनेन
नन्दयन्ति बालकान् ।
पक्षिणश्च तव करेण
तोषयन्ति शावकान् ॥
- गु. गणपय्यहोळळः