दिव्यं मम भारतम्

दिव्यं मम भारतम्

विविधपण्डितमण्डलमण्डिता प्रकृतिपुण्यविलाससमाहिता । विविधवीरवरावृतमण्डला जयति भारतभूमिरियं भुवि ॥ १॥ यस्मिंल्लोकगणः सुखेन वसति प्राप्तोऽभयं सर्वदा । गौरश्यामविभेदहीनजनता यत्रास्ति कार्याकुला । स्वातन्त्र्येण चमत्कृतं च परितो यत्रास्ति भूमण्डलम् । दिव्यं तन्मम भारतं विजयते संसार-सम्भूषणम् ॥ २॥ येषां देश सुरक्षणाय नभसि प्रज्वालिते चानले । झञ्झावातसमेतवृष्टिषु मनो यातुं सदा प्रस्तुतम् । सन्त्येतादृशवीर भावभरिता यस्यान्तराले भटाः । भव्यं तन्मम भारतं विजयते । संसार-सम्भूषणम् ॥ ३॥ यत्स्वातन्त्र्यदिनप्रमोदसमये मोदाकुला मेदिनी । आशाः सौरभमण्डिता विजयते मुग्धस्त्रिरङ्गो ध्वजः । यत्रानेकविधैः प्रमोदकरणै- रातिथ्यकृत्यैर्नवैः । मान्यन्तेऽतिथयः स मे विजयते देशः सदा भारतम् ॥ ४॥ यन्त्रोद्योग कलानिकेतनयुतं वैज्ञानिकैः पावितम् । कीर्तिश्रीयुतदेशभक्तचरितै- श्चित्रं चमत्कारकम् । विद्यारक्षणदक्षपण्डितगणै- र्नित्यं समाराधितम् । विस्तीर्णं वसुधातले विजयते मे भारतं भारतम् ॥ ५॥ यद्भूमौ प्रवहन्ति देवसरिता साकं नदीनां गणाः । यन्मूर्द्धा हिमशैलमण्डनयुतः पादाः समुद्रादृताः । यन्मूमिर्नितरां सुवर्णसहिता धान्यैः सदा दृश्यते । दिव्यं तन्मम भारतं विजयते संसार-सम्भूषणम् ॥ ६॥ यद्वृन्दाविपिने मुकुन्दचरिता- न्यद्यापि साक्षादिव । यत्काशीश्वर विश्वनाथकृपया पापान्धकारापहा । यत्तीर्थानि सदैव पापदहनं कुर्वन्ति शान्तं जलैः । भव्यं तन्मम भारतं विजयते संसार-सम्भूषणम् ॥ ७॥ यस्मिन्नस्ति सहिष्णुतापरिमिता तोषः परं राजते । यत्रास्ते ऋजुता परं प्रमुदिता यस्मिंश्च् शान्तिः परा । वैपुल्यं भजते च यत्र विदुषां पाण्डित्यपुञ्जं सदा । दिव्यं तन्मम भारतं विजयते संसार-सम्भूषणम् ॥ ८॥ जय भारतभूमे ! (संस्कृतकाव्यम्) रचना - डाॅ. रमाकान्त शुक्लः Proofread by Mandar Kulkarni
% Text title            : Divyam Mama Bharatam
% File name             : divyaMmamabhAratam.itx
% itxtitle              : divyaM mama bhAratam (ramAkAntashuklena virachitaM gItam)
% engtitle              : divyaM mama bhAratam 
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Ramakant Shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Acknowledge-Permission: Dr. Ramakant Shukla, Devavani Parishad, Delhi
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org