ध्येयपथिक साधक
ध्येयपथिकसाधक
कार्यपथे साधय
मृदु हसन् मधुकिरन् मातरं सदा स्मरन् ॥
जीवनं न शाश्वतं, वैभवं न हि स्थिरं
स्वार्थलेपनं विना, यत्कृतं हि तच्चिरं
सरलता स्वजीवने
चिन्तने सदोच्चता
समाजपोषिता वयं समाजपोषकाश्चिरम् ॥ १॥
यच्च मनसि चिन्त्यते, यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम्, एति नित्यजीवने
जनन्यनन्यचरणयोः
समर्पितस्वजीवनाः
ध्येयसाधनव्रता वयं भवेम सङ्गताः ॥ २॥
स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणं
सिंहकुलसमुद्भवाः सिंहविक्रमा वयं
सन्तु कष्टकोटयो
भवतु विघ्नवर्षणं
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ॥ ३॥
- श्री जनार्दन हेगडे
Encoded and proofread by Shubha shubhazero at gmail.com