दयानन्दवीरो यतिर्भातु शश्वत्
(गीतिका) (भुजङ्गप्रयातम्)
दयानन्दवीरो यतिर्भातु शश्वद्
गुणानां निधिर्वेद-शास्त्रोपदेष्टा ।
सदा संयमे रक्तधीर्धीर-चेता
वरेण्यं शरण्यो मुनिः साधुवृत्तः ॥ दयानन्द०॥
सदा देशभक्तं सदा धर्मभक्तं
सदा दीन-हीनाऽऽर्ति-नाशानुरक्तः ।
स्वदेशव्रतो देशभक्त्येक मूर्तिः
स्वदेशाभिमानेन सन्दीप्तमूर्तिः ॥ दयानन्द०॥
सदा देशचिन्ता, सदाऽनाथ चिन्ता
दरिद्रातुराणां समुद्धार-चिन्ता ।
गवां योषितां दुःख-नाशस्य चिन्ता
सदा यस्य चित्ते स देवो वदान्यः ॥ दयानन्द०॥
न यस्यास्ति चित्ते भयानां विभीति
न रोषाग्नि-दाहो न वा शोक शोषः ।
न यत्रास्ति चिन्ता स्वदेहस्य जातु
सदा देशचिन्ता निमग्नं सधन्यः ॥ दयानन्द०॥
ऋषीणां मुनीनां सदाऽऽदर्श-पाता
स्ववित्तस्य दाता, स्वदेहस्य दाता ।
सदा मातृभूमेः सुरक्षाऽनुरक्तो
विदेशीय धर्मे प्रहारानुरक्तः ॥ दयानन्द०॥
सदेवाऽऽङ्ग्लभाषा सृति खण्डयन् सः
सदा भारतीयं मतं मण्डयन् सः ।
चरिताभिमानं सदा दर्शयन् सः
स्वदेशानुरागे रतो धर्म धुर्यः ॥ दयानन्द०॥
स्वदेशीय राज्यं मतं सर्वश्रेष्ठं
विदेशीय-राज्यं सदाऽनर्थकारि ।
स्वदेशीय राज्ये सुखं शान्तिरिष्टा
सदा स्वाभिमानं विकासोन्नती च ॥ दयानन्द०॥
कुरीति सदा दुःखद्वन्द्वादि-कर्त्री
कुनीति सदा मानवाऽचार-हर्त्री ।
सदैवाऽन्धविश्वास मूला अनर्था
वदन् देशहेतो पपौ यो विषं च ॥ दयानन्द०॥
सदा योषिता मान-रक्षाऽवसक्तः
सदा देश-स्वातन्त्र्य-कार्यानुरक्तः ।
सदा आर्य धर्मं प्रचारानुरागी
विरागी व्रती विश्वबन्धुत्व-मानी ॥ दयानन्द०॥
मुदा दुःखजातं प्रसेहे परार्थं
जहौ देशहेतोः सुखं चार्थजातम् ।
सदा क्रान्ति-सन्देशदं तं नतोऽहं
सदा मातृभूः दत्त चित्तं श्रितोऽहम् ॥ दयानन्द०॥
Proofread by Mandar Mali