दयानन्दस्तवः
(गीतिका) (प्रमाणिका वृत्तम्)
नमामि मूलशङ्करं दयाऽऽकरं गुणाऽऽकरम् ।
प्रभाऽऽकरं सुधाऽऽकरं समस्त-लोक-भास्करम् ॥ नमामि०॥ १
स्व-ज्ञान-दीप्ति-भास्वरं गुण-प्रभा-विकस्वरम् ।
स्व-योग-रोचिषाऽऽवृतं तपो-विधृतं-कल्मषम् ॥ नमामि०॥ २
महर्षि-वृन्द-वन्दितं श्रुतेर्निनाद-नन्दितम् ।
अनाथ-नाथमाश्रयं सदा सदार्य-संश्रयम् ॥ नमामि०॥ ३
भजे गुणैक मानिनं श्रुति-प्रभैक्-ध्यायिनम् ।
भवाब्धि-दोष-पायिनं सुखौघ-शान्ति-दायिनम् ॥ नमामि०॥ ४
तमोऽपहं रजोऽपहं अजस्रमात्म-दोष-हम् ।
तप-प्रपूत-मानसं अनार्य-वृन्द-शासनम् ॥ नमामि०॥ ५
श्रये गुणोच्चयाऽऽश्रयं मनोज-भाव-संश्रयम् ।
भवाऽब्धि-दुःख-वारकं अशेष-दोष-हारकम् ॥ नमामि०॥ ६
श्रुति-स्मृति-प्रचारकं सदाऽऽर्य-वर्त्म धारकम् ।
दरिद्र-दीन-तारकं गुण-प्रभा-प्रसारकम् ॥ नमामि०॥ ७
त्वदङ्घ्रि-पद्म-सेवनं समस्त-शोक-शोषणम् ।
अशेष-दोष-दूषणं सुखौध सिन्धु पोषणम् ॥ नमामि०॥ ८
गुणाऽश्रयं प्रभाऽऽश्रयं समस्त-गौरवाऽऽश्रयम् ।
परार्थ-त्यक्त-विग्रहं त्विषा-प्रदीप्त-विग्रहम् ॥ नमामि०॥ ९
नमामि लोक-लोचनं स्फुरत्प्रभा-प्ररोचनम् ।
सुधी-प्रवीर-रञ्जकं समस्त-दोष-भञ्जकम् ॥ नमामि०॥ १०
इति दयानन्दस्तवः सम्पूर्णः ।
Proofread by Mandar Mali