दलितोद्धारः
(भुजङ्गप्रयात वृत्तम्)
इमे बान्धवाः भ्रातरं प्रेमपात्रं
कृशा हीनवित्ता क्षुधा हीमवृत्ता ।
सदा शोक-ग्रस्ता सदा दैन्य ग्रस्ता
सदैवाऽऽयजातेस्त्विमे रत्नभूता ॥
इमे जाति-भेदेन वर्ग-प्रभेदैः
सदा पीडयमाना सदा शोष्यमाणाः ।
सदोच्चावचैर्भेदभावैर्विनष्टा,
इमे पोषाणीयाः इमे तोषणीयाः ॥
इयं हिन्दु-जाति प्रणष्टा प्रभेदैः
सदा भेदभावैः स्वयं कृश्यमानाः ।
न देशस्य जातेस्तु चिन्ता कदाचित्
सवर्णाऽसवर्णेषु नाऽभेद-बुद्धिः ॥
इयं द्वेप-बुद्धिः, इयं भेद बुद्धिः
इयं स्पृश्यताऽस्पृश्यतायाश्च बुद्धिः ।
इयं चोच्च नीचाऽऽश्रया हीनवृत्तिः
सदा हिन्दुजातेस्तु सहारकर्त्री ॥
दयानन्दवर्यो मुदा दीन-त्राता,
सदा हिन्दुजातेश्च प्राण-स्वरूपम् ।
विजातीय-लोकैहृतान् वीक्ष्य चेतान्
शुचाकान्त चित्तो न लेभे तु शान्तिम् ॥
सदा हिन्दुजातेस्तु क्षीणामवस्थां
निरीक्ष्याऽवदद् धर्म-जातेरधीशान् ।
इयं भेद-बुद्धिः कुठारावघातं
स्वपादे, कदाचिद् धिया चिन्तनीयम् ॥
न चैते विमूढास्तु जातेरधीशाः
सदा जाति-वादान्ध प्रज्ञा-विवेकाः ।
न जातेर्हितं जातु ते कामयन्ते
स्वधर्मस्य हानिं न ते चिन्तयन्ति ॥
सुधीर्गान्धिवर्योऽपि हीनामवस्था
निरीक्ष्यावदद् धर्म धी-हीन-चित्तान् ।
इमे भ्रातरो रत्नभूताश्च जाते
समानाधिकारेण संरक्षणीया ॥
विधर्मं गतास्ते शुचः कारणानि,
सृतिं यावनीमाङ्गली वा श्रयन्ते ।
विधर्मं श्रिता लोभ-मोहादि-हेतो,
स एवाऽर्यं-जातिं क्रुधाः नाशयन्ति ॥
अये ! आर्य-जातेर्युवानो बुधाश्च
हितं वाक्यमेतत् तु शृण्वन्तु स्निग्धाः ।
इमे शिल्पिनः कर्मिणः शूद्रप्रख्याः
सदा पोषणीया सदा तोषणीया ॥
Proofread by Mandar Mali