चिदानन्दरूपं भजेम स्वरूपम्
अनेकान्तिकं द्वन्द्वशून्यं विशुद्धं नितान्तं सुशान्तं गुणातीतमेकम् ।
सदा निष्प्रपञ्चं मनोवागतीतं चिदानन्दरूपं भजेम स्वरूपम् ॥ १॥
सदा स्वप्रभं दुःखहीनं ह्यमेयं निराकारमत्युज्ज्वलं भेदहीनम् ।
स्वसंवेद्यमानन्दमाद्यं निरीहं चिदानन्दरूपं भजेम स्वरूपम् ॥ २॥
अहं प्रत्ययत्वादनेकान्तिकत्वादभेदस्वरूपात् स्वतःसिद्धभावात् ।
अनन्याश्रयत्वात् सदा निष्प्रपञ्चं चिदानन्दरूपं भजेम स्वरूपम् ॥ ३॥
अहं ब्रह्म भासादिमत् कार्यजातं स्वलक्ष्येऽद्वये स्फूर्तिशून्ये परे च ।
विलाप्य प्रशान्ते सदैवैकरूपे चिदानन्दरूपं भजेम स्वरूपम् ॥ ४॥
अहम्ब्रह्मभावो ह्यविद्याकृतत्वात् विभिन्नात्मकं भोक्तृभोग्यात्मबुद्ध्या ।
जडं सम्बभूवाथ पुंस्त्र्यात्मना यत् चिदानन्दरूपं भजेम स्वरूपम् ॥ ५॥
अनित्यं जगच्चिद्विवर्तात्मकं यत् विशोध्य स्वतःसिद्ध चिन्मात्ररूपम् ।
विहायाखिलं यन्निजज्ञानसिद्धं चिदानन्दरूपं भजेम स्वरूपम् ॥ ६॥
स्वभासा सदा यत्स्वरूपं स्वदीप्तं निजानन्दरूपाद्यदानन्दमात्रम् ।
स्वरूपानुभूत्या सदा यत्स्वमात्रं चिदानन्दरूपं भजेम स्वरूपम् ॥ ७॥
जगन्नेति वा खल्विदं ब्रह्मवृत्त्या निजात्मानमेवावशिष्याद्वयं यत् ।
अभिन्नं सदा निर्विकल्पं प्रशान्तं चिदानन्दरूपं भजेम स्वरूपम् ॥ ८॥
निजात्माष्टकं ये पठन्तीह भक्ताः सदाचारयुक्ताः स्वनिष्ठाः प्रशान्ताः ।
भवन्तीह ते ब्रह्म वेदप्रमाणात् तथैवाशिषा निश्चितं निश्चितं मे ॥ ९॥
इति समर्थानुगृहीत महात्मा श्री श्रीधरस्वामीविरचितं
चिदानन्दरूपं भजेम स्वरूपं स्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Sunder Hattangadi