चमूः प्रवृत्ता संस्कृतबन्धूनाम्
चमूः प्रवृत्ता संस्कृतबन्धूनां
संस्कृतयष्टिधरा संस्कृतिधुरन्धरा ॥
न ताडयति कायं
न भेदयति हृदयम् ।
निर्मलमनसा संस्कृतवचसा
विकासयति चित्तम् ॥ १॥
ग्रामे नगरे सञ्चरति
संस्कृतशिबिरं निर्माति ।
सम्भाषण-जागर्ति-हेतुना
पुरो नयति राष्ट्रम् ॥ २॥
बाला वृद्धा गृहिणी गृहिणो
विहाय जातिवयोभेदम् ।
प्रसार्य लक्षायुतबाहून्
रक्षति संस्कृतजननीम् ॥ ३॥
- गु. गणपय्यहोळ्ळः
Encoded and proofread by Shubha shubhazero at gmail.com