ब्रह्मविज्ञानसंहिता
प्राक्कथनम्
विवेकादि साधनवद्भिरेव सफला ब्रह्मविद्या लभ्यते ।
क्लेश प्रवाह पूरिते मायावर्तावृते कामक्रोधादि हिंसक जन्तु सङ्कुले
भव वारिधौ पतितानां त्रयताप तापितानां जीवानां ब्रह्मात्मतत्त्व
विज्ञान पोतादेव समुद्धारः । ब्रह्मविज्ञान पोत लाभस्तु विवेकादि
साधनैर्भवति । येन मानव शरीरमांसाद्यापि यदि साधन
सम्पतिर्न सम्पादिता तस्य तु निरर्थक जीवनम् । ब्रह्मविज्ञान प्राप्तौ
साधनचतुष्टय सम्प्राप्तिरेव परमं साधनम् । साधन सम्पदं विना
तद् विज्ञानं सफलयितुं यः इच्छति सोऽति मूढः । उक्तं च -
मातुरङ्के समासीनो गृहीतुं चन्द्रमिच्छति ।
बालो यथा तथैवाज्ञो विज्ञानं साधनैर्विना ॥ १॥
विषयेऽस्मिन्निदमाख्यानं श्रूयते । एकदाऽश्विनीकुमारौ देव
भिषजौ ब्रह्मज्ञानिनो महर्षेर्दधीचः वेदादि शास्त्रमधीत्य
ब्रह्मविज्ञान श्रवणस्य च जिज्ञासां कृतवन्तौ ॥ महर्षिणा साधन
शून्यत्वात् ताभ्यां नोपदिष्टा ब्रह्मविद्या । उक्तं च - यदा भवन्तौ
साधन सम्पन्नौ भविष्यतः तदा ब्रह्म-विद्यामुपदेक्ष्यामीति, तौ
विचारितवन्तौ, वस्तुतः स एव ब्रह्मविज्ञानस्याधिकारी यो विवेकादि
साधन सम्पन्नः ।
अतएव विवेकादि साधन सम्पतिरेवावश्यं सम्पादयितव्या,
इत्यवधार्य महर्षिसमीपात् निर्जग्मतुः ।
अथ कदाचित् देवराज इन्द्रोः महर्षेर्वीतरागस्य दधीचः प्रशंसां
श्रुत्वा तदाश्रममाजगाम । महर्षिणा तस्यातिथ्यं कृतम् ।
स्वागतं महाभाग ? किन्ते प्रियं करवाणि इतितं पप्रच्छ, मह्यं
ब्रह्मविद्यामुपदिश इत्युक्तं देवराजेन । कि भवान् तदधिकारी
जातः ? महर्षिणा मन्देनोक्तम् । अनेन किं प्रयोजनं ? ब्रह्मविद्यया
स्वयमाधिकारित्वं प्रादुर्भविष्यति इति सगर्वः शक्रः प्रोवाच
। तत्त्वदर्शिना मतिमता ब्रह्मर्षिणामनसीदं समालोचितम्, अयं
किल देवराजो विवेकादि शून्यः विषय लोलुपः दुराग्रही च नास्ति
ब्रह्मविद्याधिकारीति । अथ तावदादौ वैराग्यं जनयितुं महर्षिणोक्तम्
। हे देवराज ! जीवनं ते तुच्छ शूकर तुल्यं, अतस्त्वं न
ब्रह्मविद्याधिकारी । तवाशुचि शूकरस्य च सुख दुःखञ्च
समानमेव । यथा यावती शूकराय विष्ठाऽस्वाद्या प्रियाच तथैव
तावती भवते सुधा स्वादिष्टा वल्लभाचास्ति यथा भवता शची
रम्भादयप्सरस-आलिङ्ग्य च यावती मात्रायां सुखमनुभूयते । तथैव
शूकरेणाऽपि शूकरीमालिङ्ग्य च तावती मात्रायां सुखमनुभूयते
। देवराज ! त्वं यथा विष्ठाशूकरीं च विलोक्य तत्र घृणां
कृत्वासमुद्विजते तथैव शूकरोपि सुधां शची च विलोक्य तथैव
करोति । एवं मृत्युत्रासोऽपि समानमेव । रागद्वेषाधीनत्वमपि
तुल्यमेवोभयोः । एवं तव जीवनं तुच्छं शूकर-जीवन तुल्यमेव ।
विवेक साधनैर्विना न भवान् ब्रह्मविद्याधिकारी । ``पयः पानं
भुजङ्गानां केवलं विषवर्धनम्।'' इव स्वस्यैतादृशीं
निन्दां श्रुत्वा देवेन्द्रो महर्षि प्रति चुकोप, ``नायं
ब्रह्मविद्याचार्यः'' अपितु कश्चिच्छत्रुपक्षीयो गुप्तचरः ।
इति विनिश्चित्य परुषवाक्यैः ऋषिन्निर्भत्स्योक्तम्, भो कपटमुने
! अद्यारभ्य कस्मैचिदपि ब्रह्मविद्या नोपदेष्टव्या । यदि मदीय वचन
परिपालनं न भविष्यति तदा तव शिरः वज्रेणैव पोथयिष्यामि ।
इत्युक्त्वा स आश्रमादपससार ।
अथ कियत् कालानन्तरं अश्विनीकुमारौ साधनसम्पदं सम्पाद्य
प्रतिनिवृतौ, महर्षि मुखात् विदित वृतान्तौ तावूचतुः अथ च किं
भविष्यति किल? भवता तु प्रतिज्ञातं यदा साधन सम्पन्नौ भवन्तौ
भविष्यतः तदा ब्रह्मविद्यामुपदेक्ष्यामीति । सत्यवादिनोभवतः
प्रतिज्ञा मिथ्या भवितुं नार्हति । जीवनादपि सत्यपालनं गरिष्ठम्
। महर्षिणोक्तं ब्रह्मविद्यामुपदेक्ष्यामि, परन्तु न जाने सा पूर्णा
भविष्यति न वा ? मध्य एव देवेन्द्रो यदि शिरश्छेत्स्यति तदा
किं भविष्यति । अश्विनीकुमारावुपायं विचिन्त्योचतुः, यथा भवतः
सत्यवचनस्य शिरसश्चरक्षणं स्यात् तदेव कर्तव्यं, अथ तावत्
इदानीं तव शिरच्छित्वा अन्यत्र निधाय अश्वशिरस्त्वयि संयोज्यते ।
आवयोसञ्जीवनी विद्या प्रभावेण जीवनं लब्ध्वा तेनाश्वशिरसा, आवाभ्यां
ब्रह्मविद्योपदेष्टव्या । यदा च देवराजस्य वज्रेण तव शिरश्च्छेदः
भविष्यति तदा भवतः स्वाभाविकं शिरः संयोजयिष्यावः ।
तथैवास्तु इत्येवमनुज्ञाते सति अश्विभ्यां तथैव कृतम् । महर्षिणा
ताभ्यामश्वशिरसा मधु ब्रह्मविद्यां समुपदेष्टु प्रारेभे । तद्ज्ञात्वा
इन्द्रो वज्रण तदश्वोयं शिरः अच्छिनत् । अश्विभ्यां मानुषीयं शिरः
समधत्ताम् । तदनन्तरं स्वशिरसा शेषां ब्रह्मविद्यामुपदिदेश ।
इत्याख्यानेन सिध्यति ब्रह्मविद्यानोपलभ्यते साधनविना । साधनहीनो
देवराजो मौढ्यान्महर्षि द्वेषं कृत्वा पुरुषार्थ भ्रष्टोऽभूत् ।
अथ च प्राक् मानव शरीरेण विवेकादि साधनानि सम्पादितव्यानि,
तदनन्तरं ब्रह्मविज्ञानस्य ज्ञानं भविष्यति ।
-- स्वामी स्वयम्भू तीर्थ
ज्ञानाद्विहीनोऽपि, गुरुप्रसादात्
लभामहे नूनमिदं महत्वम् ।
पङ्कस्य कीटोपि सुपुष्प सङ्गात्
आप्नोति भालं वृषवाहनस्य ॥ क॥
विद्या वियुक्तस्त्रयतापयुक्तः
मार्गे मुनीनां मन आदधामि ।
कृतञ्च यत्तत् परकीयमेव
सत्यं कलेर्जीव-स्वभाव एषः ॥ ख॥
वेदान्तसिन्धुं भ्रमभूरिपूर्णम्
सच्छिद्रया क्षुद्रतरी धियाऽहम् ।
पारं चिकीर्षुर्मम मोह एषः
खद्योत-दीप्तिर्न निशातमो यथा ॥ ग॥
स्वान्तः सुखाय लिखितां शुचिब्रह्मविद्याम्
श्रद्धा-विवेक-बलिनः पुरुषा अधीत्य ।
नूनं विहाय कलि कुञ्जर भूरि भीतिम्
तेजस्विनो मृगपतेः पदतां लभन्ते ॥ घ॥
वेदान्त-सिन्धुं परिलोड्य यत्नैः
यो ब्रह्मविज्ञान-सुधा-सुकुम्भम् ।
नीत्वागतः लोकहिताय भूमौ
तीर्थोत्तरः स्वामिवरः ``स्वयम्भू'' ॥ ङ॥
प्रथमोऽध्यायः (ब्रह्मविज्ञान का मूलस्रोत)
सर्वेषु दुःखेषु जगद्गतेषु
कर्तव्य तैवास्ति विशाल-दुःखम् ।
तस्यां स्थितायां न सुखातिरेकम्
तस्माच्च तन्नाश-विधि-र्विधेया ॥ १॥
द्वितीयोऽध्यायः (विचार का महत्व)
विचार एवास्ति परं निधानं
बीजं विशुद्धं सुख पादपस्य ।
तस्यैव शक्तिर्हि नवाङ्कुरश्च
विचारवान्भाति नरो धरायाम् ॥ २॥
तृतीयोऽध्यायः (आत्मसमर्पण)
आनन्दसिन्धोस्तव वारिविन्दोः
पुरः किमास्ते विधि-लोक-सौख्यम् ।
पादारविन्देषु रतिं प्रयच्छ
श्रुत्वा बलेर्गां हरिरालिलिङ्ग ॥ ३॥
चतुर्थोऽध्यायः (ऋषिदत्तकला)
संसार भोगान् विषमन्यमानाम्
औदास्य भावं सततं वहन्तीम् ।
पप्रच्छ राजा महिषीं स्वकीयाम्
किमस्ति चित्ते तव पद्मनेत्रे ॥ ४॥
पञ्चमोऽध्यायः (भोगों की असारता)
किमस्ति तत्त्वं प्रियकारि वस्तुतः
किमीरितं विप्रियकारि मे वद ।
अनिष्टमिष्टं न च वेद्मि मन्दधीः
त्वमेव तत् बोधयितुं प्रवर्तसे ॥ ५॥
षष्ठोऽध्यायः (रहस्यमयी नारी)
पुरा ददौ मे जनको मदर्थम्
सखीं सतीं सौम्यस्वभावशीलाम् ।
परन्तु साऽन्यामसतीं स्वभाव
दुष्टां सखीं प्राप्य विदूषिताऽभूत् ॥ ६॥
सप्तमोऽध्यायः (आस्तिकता)
जहाति श्रद्धारहितं नरं यशः
सुखञ्च लक्ष्मीश्च विवेकिनी मतिः ।
लतां सुश्रद्धां परमार्थ-मञ्जुल-
फल-प्रदां प्राप्य सुखी नरः स्यात् ॥ ७॥
अष्टमोऽध्यायः (ईश्वरसिद्धि)
सद्युक्तिभिः वेद-पुराण-शास्त्रैः
संसार-निर्माण-विधिञ्च दृष्ट्वा ।
संसिद्धमेवेश्वरकर्तृकत्वम्
परन्तु कर्ता स विलक्षणोऽस्ति ॥ ८॥
नवमोऽध्यायः (रहस्योद्घाटन)
पिता मदीयः परतत्त्वमुच्यते
सखीं सती बुद्धिमवेहि भूपते ।
असत्स्वभावा ह्यसती विचार्यताम्
यस्यास्तु सङ्गेन मतिर्विदूषिता ॥ ९॥
दशमोऽध्यायः (आत्मदर्शन)
असु-तनु-मति-मुक्तं पञ्चकोशादतीतम्
परम-सुख-निधानं शुद्ध चैतन्यरूपम् ।
इति मनसि निजं स्वं स्वात्मना संविचार्य
सपदि विषमचक्षुर्लक्ष्य सिद्धिञ्चकार ॥ १०॥
एकादशोऽध्यायः (विद्यानगर)
महीप पुत्रस्य वधू प्रभावतः
नराधिपो मन्त्रिगणाः सभासदः ।
नराश्च नार्यश्च तथा विटा नटाः
समे जना जीवनमुक्तितां ययुः ॥ ११॥
द्वादशोऽध्यायः (संसार है ही नहीं)
प्रभासते विश्वमिदं जडात्मकम्
चिदात्म-भित्तौ प्रतिबिम्बरूपकम् ।
स्वतो न सत्ता जगतश्च विद्यते
यथा प्रतीति-र्नगरस्य दर्पणे ॥ १२॥
त्रयोदशोऽध्यायः (ब्रह्मराक्षस से शास्त्रार्थ)
ततः पयः पूरप्रवाहितस्य
हृदस्य कूले वटपादपस्थः ।
खादन् विवादे विजितान् मनुष्यान्
स राक्षसः लोचन-गोचरोऽभूत् ॥ १३॥
चतुर्दशोऽध्यायः (गुहा में ब्रह्माण्ड दर्शन)
विलोकितं तत्र विचित्र लोकम्
प्रविश्य राज्ञा तु गिरेर्गुहायाम् ।
पुनस्तदाऽगत्य विलोक्य सृष्टिम्
पप्रच्छ मर्माणि मुनि महीपः ॥ १४॥
पञ्चदशोऽध्यायः (मन का संसार)
यथैव चित्तेन सुचिन्तितेन
प्रबुध्यते चेतसि स्वप्नजालम् ।
तथैव विश्वं चिति भासमानम्
स्वप्नं हि विश्वं विबुधाः वदन्ति ॥ १५॥
षोडशोऽध्यायः (सङ्कल्पसिद्धि)
प्रतीयते काल पदार्थ वस्तु
विभावितं भावनयैव सर्वम् ।
भावेन सिद्धिर्जगतश्च जाता
का कुत्र भावेन विना प्रतीतिः ॥ १६॥
सप्तदशोऽध्यायः (वरुण का यज्ञ)
वितण्डया विप्र कुलान्स वारुणिः
विजित्य तान् नीरनिधौन्यमज्जयत् ।
कहोल-पुत्रेण पराजितः स वै
मुनिस्तु गार्या बहु खिन्नतां गतः ॥ १७॥
अष्टादशोऽध्यायः (सुषुप्तो से समाधि का अन्तर)
अविद्यया प्रावृत-चित्त-वृत्तिः
भवेत्सुषुप्तिर्न चिदात्म भासः ।
प्रकाश-चैतन्य-युतः समाधिः
कथं सुषुप्तिर्हि समाधितुल्या ॥ १८॥
एकोनविंशतिरध्यायः (ज्ञान की पराकाष्ठा)
चैतन्यपूर्णोऽस्मि स्वभावतोऽहम्
तस्मान्निरोधे मनसः क्व लाभः ।
सर्वत्र शुद्धोऽस्मि विनिश्चयो मे
कार्ये समाधावपि तुल्यरूपः ॥ १६॥
विंशतिरध्यायः (गूढतत्त्व)
गुह्याति गुह्यं भवता यदुक्तम्
चैतन्य-रूपेण विभासमानम् ।
दृश्यं प्रपञ्चञ्च तदेकरूपम्
सर्व न तद्बुद्धि पदं गतं मे ॥ २०॥
एकविंशतिरध्यायः (ज्ञानियों की विभिन्न स्थितियाँ)
बुद्धेर्विभेदैः स्थितयो विभिन्नाः
विवेकिनां ज्ञानवतां लसन्ति ।
संसारकार्येऽपि समाधि-मग्ना
केऽप्यात्म-सन्धान-विशेष-लग्नाः ॥ २१॥
द्वाविंशतिरध्यायः (ब्रह्म का साक्षात्कार)
ब्रह्मादिदेवैरुपगीयमानम्
साक्षात्परब्रह्म तदाविरासीत् ।
यद्वेद-तत्त्वं निहितं गुहायाम्
आकाशवाण्या तु तदेव मुक्तम् ॥ २२॥
त्रयोविंशतिरध्यायः (चेतन ही सार)
सिद्धान्तसारः प्रतिपादितोऽयम्
ब्रह्मैव सत्यं जगदस्ति मिथ्या ।
जीवेशयोः कोऽपि न कुत्र भेदः
संसारतत्त्वन्तु चिदात्मकत्वम् ॥ २३॥
पुण्यप्रदः पापहरो मनोज्ञः
गुह्याति गुह्यो मुनि-ज्ञान-गम्यः ।
संसार-जीवेश-रहस्य-पूर्णः
ग्रन्थो मयोक्तः भवपोत रूपः ॥ २४॥
ग्रन्थस्य दोषाः सकलाः मदीयाः
गुणाः गुरूणाञ्च विचारणीयाः ।
शुक्तौ च मुक्ताः गरलं भुजङ्गे
स्वातेर्जलं किन्तु समानमेव ॥ २५॥
इति स्वामी स्वयम्भूतीर्थविरचिता श्रीवेदव्याससूतसंवादरूपा
ब्रह्मविज्ञानसंहिता समाप्ता ।
Proofread by Pranav Tendulkar, NA