ब्रह्मविद्या

ब्रह्मविद्या

लेखकः - नन्दप्रदीप्तकुमारः निरस्तमायाकृतसर्वभेदं नित्यं विभुं निष्कलमप्रमेयम् । अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ इति विवेकचूडामणिकारेण शंकरभगवद्पादेन ब्रह्मलक्षणं समीक्षितम् । शारीरके भाष्येऽपि -यस्मादादौ बुद्धा आदिबुद्धाः प्रकृत्येव स्वभावत एव तथा नित्यप्रकाशस्वरूपः सवितैव नित्यबोधस्वरूपा इति आत्मनः सूर्यवत् नित्यप्रकाशस्वरूपत्वं नित्यबोधरूपत्वं च उक्तम् । मांसमेदोस्थियुक्तशरीररहितत्वादसौ अकायम् । अज्ञानादिदोषशून्यत्वात् विशुद्धम् । क्लेशकर्मविपाकाशयैरपरामृष्टत्वादसौ अपापविद्धमित्युच्यते । तथा हि ईशावास्येस्ष्टमे मन्त्रे- स पर्यगात् शुक्रमकायमब्रणमस्नाविरं शुद्धमपापविद्धमिति । तत्र बृद्ध्यर्थकाद् बृहि धातोः ब्रह्मशब्दो निष्पन्नः । बृंहति बर्द्धते निरतिशयमहत्त्वलक्षणबुद्धिमान् भवतीत्यर्थः इति कोशवचनं श्रूयते । छान्दोग्ये- सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् तैतरीये -सत्यं ज्ञानमनन्तं ब्रह्म (२/१/१) तत्र आनन्दं ब्रह्मेति व्यजानात् (३/६/१) बृहदारण्यके -सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म(५/४/९) तत्र -सत्यस्य सत्यम्(२/३/६) पुनस्तत्र अन्नमयादिपञ्चकोशव्यतिरिक्तो शुद्धबुद्धमुक्तस्वभावश्चात्मा विज्ञानमानन्दं ब्रह्म(३/९/२८) इति । श्रुतिस्मृतिष्वपि सत् चित् एवम् आनन्दस्वरूपं ब्रह्म इति सयौक्तिकं स्वरूपलक्षणं प्रमाणितम् । ब्रह्मणो ज्ञानरूपं तु स्वत एव प्रमाणम् । अत्र आनन्दं ब्रह्मवाचकम् । स्वगत-सजातीय-विजातीयभेदराहित्यं त्रिकालावाधितम् अखण्डं ब्रह्म । तल्लक्षणं सच्चिदानन्दमयमिति अर्थात् सर्वदा वर्तमानं स्वप्रकाशचैतन्यम् आनन्दस्वरूपमिति वेदान्तडिण्डिमः । अत्र सच्चिदानन्दमिति प्रयोजनम्, अखण्डमिति विषयः, शास्त्रविषययोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धः, तत्कामोऽधिकारीति अनुबन्धचतुष्टयमुक्तम् । सत्यज्ञानानन्दादि पदैर्विशिष्टं ब्रह्म अन्येभ्यो जागतिकविषयेभ्यो भिन्नम् । एतानि सत्यज्ञानादीनि विशेषणानि ब्रह्मणः स्वरूपलक्षणार्थं मन्तव्यम् । ज्ञानमेव ब्रह्मणः स्वरूपमात्रं न धर्मो वेति । अद्वैतप्रतिपादितं विशुद्धं ब्रह्म एकमेवाद्वितीयमिति वेदान्तविद्भिः स्थिरीकृतम् । ब्रह्मणः तटस्थलक्षणं तु जन्माद्यस्य यतः इति । अथ वा तैतरीये- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति यत्प्रयत्त्यभिसंविशन्ति (३/१) तद् ब्रह्म इति । अनेन सृष्टिस्थितिलयात्मकादीनि कार्याणि ब्रह्मणः तटस्थलक्षणेऽभिप्रेतानि । अखिलाधारत्वात् । अत्र जगदन्तर्भूतामनादिभावभूतां मायां प्रति अकारणत्वेपि न ब्रह्मणो जगज्जन्मादि कारणत्वहानिः । तदेव शुद्धचैतन्यं जीवब्रह्मैक्यं प्रमेयं तत्रैव वेदान्तानां तात्पर्यात् । अज्ञाननिवृत्तिः स्वरूपानन्दावाप्तिश्चास्य ब्रह्मणो मुख्यप्रयोजनमुक्तम् । तथाहि छान्दोग्ये-तरति शोकमात्मवित् (३/१/३) मुण्डकेऽपि- ब्रह्मविद् ब्रह्मैव भवति(३/२/९) इत्यादिश्रुतेश्च । एवंभूत आत्मा स्वाधीनः । यदधीनं समस्तं विवर्तभूतं जगत् । कोऽयं हेतुः ? सर्वेषां चिदचिद्रूपाणां भूतजन्तूनामन्तर्गतत्वात्, सर्वभूतान्तरात्मेति प्रसिद्धत्वाच्च । यच्चोक्तं बृहदारण्यके-यः सर्वाणि भूतान्यान्तरो यमयति (३/७/१५) यस्य सर्वाणि भूतानि शरीरम् (तत्र ३/७/१६) इति निरञ्जनस्य निर्लिप्तस्य निःसंगस्य लक्षणविवेको दिङ्मात्रं प्रदर्शितम् । इत्यलं पल्लवितेन । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Brahmavidya
% File name             : brahmavidyA.itx
% itxtitle              : brahmavidyA (lekhaH)
% engtitle              : brahmavidyA
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org