ब्रह्मविदां सरसामृतभाषे
ब्रह्मविदां सरसामृतभाषे ब्रह्मसुते श्रुतिभारती वन्दे ॥ ध्रु॥
ग्रन्थनिबन्धिनि सन्मुनिवन्दे बोधदिनेशविभेनिरवद्ये ।
मानसवारिजवासिनिविद्ये मन्मथीभाषिणि भारती वन्दे ॥ १॥
बिन्दुकरम्बितचन्द्रललाटे सर्गविसर्गविभूषितकण्ठे ।
हीरकरश्मि सुरञ्जितनासे कर्णविहारिणि भारती वन्दे ॥ २॥
तालुतले भ्रमरीव नटन्ते वेदकदम्बशिखा सुरणन्ते ।
भावविबोधिनि भव्यसुवर्णे हृद्यपदे सुरभारती वन्दे ॥ ३॥
मूर्धकिरीटविटङ्कितकान्ते स्मेरसिताम्बुजकुट्मलएअन्ते ।
सान्द्रसुधाप्लुतबिम्बफलोष्ठे विश्वविमोहिनि भारती वन्दे ॥ ४॥
सन्ततसुस्वरमूर्छनताने व्यञ्जनकिङ्कीणीघोषविताने ।
पद्यतरङ्गिणी गद्यनिबन्धे (ज्ञानप्रदायिनि) भारती वन्दे ॥ ५॥
रचयिता - डाॅ शैलेशकुमार तिवारी
गायक - आचार्य विशालप्रसाद भट्ट
संस्कृतभारती उत्तराञ्चल
Encoded by Manish Gavkar manishyg at gmail.com
Proofread by Manish Gavkar, NA, PSA Easwaran