ब्राह्मीविद्या
अथ ब्राह्मीविद्या ॥
ॐ ॐ ॐ त्रिगुणपुरुष क्षेत्रचर मोहं भिन्धि
रजस्तमसी भिन्धि प्राकृतं पाशजालं सावरणं परिहर
सत्त्वं ग्रहाण पुरुषोत्तमोऽसि सोमसूर्यानल प्रवर
परमधामन्ब्रह्मविष्णुमहेश्वररूप सृष्टिस्थितिसंहारकारक
भ्रूमध्य निलय तेजोऽसि धामासि महात्मन्
ॐ तत्सत् ॐ तत्सत् ॐ तत्सत्
ॐ हंसः शुचिषद्वसुरन्तरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत्
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम्
परम्ब्रह्मस्वरूप सर्वगत सर्वशक्ते सर्वेश्वर सर्वग्रन्थिभेदनं
कुरु कुरु परमपदं परामर्ष ब्रह्मद्वारं सर कुमार्गं जहि
षाट्कोशकं शरीरं त्यज शुद्धोऽसि बुद्धोऽसि विमलोऽसि क्षमस्व
स्वपदमासादय स्वाहा ॥
ॐ हंसो नारायणः प्रोक्तो हंस आत्मेति निश्चितम् ।
स एवात्मा स भगवान्विष्णुस्तद्ब्रह्म सर्वगम् ॥
इमां महाब्रह्मविद्यां प्रातः काले पठेत्तु यः ।
स याति परमं स्थानं यत्र गत्वा न शोचते ॥
इति ब्राह्मीविद्या समाप्ता ॥
Encoded and proofread by Jonathan Wiener wiener78 at sbcglobal.net