बोधयित्वा सङ्घभावम्
बोधयित्वा सङ्घभावं
नाशयित्वा हीनभावं
नवशताब्दे कलीयुगाब्दे
हिन्दुधर्मो विजयताम् ॥ ध्रु॥
राष्ट्रभक्तिं सामरस्यां
दक्षसम्पत प्रार्थनाभिः
वर्धयित्वा स्वाभिमानं
पाञ्चजन्यं श्राव्यतां
दीर्घतपसा पूर्णमनसा
चारुवचसा वीरव्रत्या
स्वार्थरहितं ज्ञानसहितं
क्षात्रतेजो दर्शताम् ॥ १॥
वेदवाणी राष्ट्रवाणी
धर्मसंस्कृति मूलगङ्गा
लोकभाषो जीवनार्थं
संस्कृतेन हि भाष्यतां
हिन्दुदर्शन जीवभूता
संस्कृतिः खलु विश्वमान्या
भव्यभारत वैभवार्थं
साच्यनित्यं सेव्यताम् ॥ २॥
ऐक्यभावं वर्धयित्वा
भेदभावं वारयित्वा
मातृमन्दिर पूजनार्थं
नित्य शाखा गम्यतां
हिन्दुबान्धव स्नेहबन्ध-
स्सर्वसाधक शक्तिदायी
विश्वमङ्गल शान्तिसुखदं
हिन्दुराष्ट्रं राज्यताम् ॥ ३॥