भुवि संस्कृतवाङ्मधुरा महिता
(संस्कृतम्)
भुवि संस्कृतवाङ्मधुरा महिता ।
इयमद्भुत-वेद-सुधा-सहिता ॥ १॥
ऋषि-सुक्त-निघण्टु-निरुक्त-कसा,
श्रुति-पिङ्गल-शास्त्र-सुमन्त्र-रसा,
डमरोर्ध्वनिरेव मृडेन यता ॥ २॥
सुरभी रस-सागर-रत्नमयी,
मणि-मौत्तिक-हीरक-शुक्तिशयी,
ऋषिभिर्मुनिभिः कविभिर्मयिता ॥ ३॥
जगति प्रवरा प्रखराऽतिपुरा,
इयमेव हि संस्कृति यानधुरा,
शुचि-सत्य-शिवैर्नियमैर्यमिता ॥ ४॥
जनजीवनजालजरज्जयिनी
हृदये मृदुता मधुतोन्नयनी
मणिभिः खचिता कविभी(?) रुचिता ॥ ५॥
इतिहास-कथोपनिषन्मरुतः
प्रवहन्ति यथाऽत्र विधा-सरितः
ननु संस्कृत वाक् प्रतिभासविता ॥ ६॥
हृदयं भरति श्रुति-मन्त्र-रसैः
मधुपूरित झङ्कृत शब्द-कशैः
किल संस्कृत-सोमलता-कविता ॥ ७॥
कल-संस्कृत-वेगवती तरला,
श्रवणे मुरली वचने सरला,
अधुनापि नवा युवती मुदिता ॥ ८॥
रसवर्ण-सुधा-सित-पुष्करिणी,
सुर-ताल-लयैर्हि मनोहरिणी,
सदलङ्कत-वृत्तवती वनिता ॥ ९॥
खलु संस्कृतवानिह धन्यतरी
निज-पूर्वज-पावन-पुण्य-धरी,
शुभता-भरिता तमसो रहिता ॥ १०॥
-- प्रेम शङ्कर शर्मा
Encoded and proofread by Mohan Chettoor