भ्रमराष्टकम्

भ्रमराष्टकम्

गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या क्षुधितमधुपः पुष्यमध्ये पपात । अन्धीभूतः कुसुमरजसा कण्टकैश्चिन्नपक्षः स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ १॥ गन्धाढ्यां नवमल्लिकां मधुकरस्त्यक्त्वा गतो यूथिकां दैवात्ताञ्च विहाय चम्पकवनं पश्चात् सरोजङ्गतः । वङ्घस्तत्र निशाकरेण विधिना क्रन्दत्यसौ मूढधीः सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः ॥ २॥ येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट्पदा स्ते भ्राम्यन्ति फलाद्वहिर्बहिरतो दृष्ट्वा न सम्भाषसे । ये कीटास्तवदृक्पथञ्च न गतास्ते त्वत्फलाभ्यन्तरे धिक् त्वां चूत यतः परापरपरिज्ञानानभिज्ञो भवान् ॥ ३॥ नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया मालत्याः कुसुमेषु येन सततं केली कृता हेलया । तेनेयं मधुगन्धलुब्धमनसा गुञ्जालतां सेव्यते हा धिग् दैवकृतं सएव मधुपः काङ्कां दशां नागतः ॥ ४॥ पलाशकुसुमभ्रान्त्या शुकतुण्डे मधुव्रतः । पतत्येष शुकोप्येनं जम्बुभ्रान्त्या जिघांसति ॥ ५॥ दृष्ट्वा स्फीतो भवदलिरसौ लेख्यपद्मं विशालं चित्रं चित्रं किमिति किमिति व्याहरन् निष्पपात । नास्मिन् गन्धो नच मधुकणा नास्ति तत्सौकुमार्यं घूर्णन्मूर्द्ध्ना बत नतशिरा व्रीडया निर्जगाम ॥ ६॥ अलिरसौ नलिनीवनवल्लभः कुमुदिनीकुलकेलिकलारसः । विधिवशेन विदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ७॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पद्मजालम् । इत्थं विचिन्तयति कोषगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ८॥ इति भ्रमराष्टकं समाप्तम् । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : bhramarAShTakam
% File name             : bhramarAShTakam.itx
% itxtitle              : bhramarAShTakam
% engtitle              : bhramarAShTakam
% Category              : misc, sahitya, advice, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : From Kavya Sangraha, A Sanskrit Anthology, Dr. John Haeberlin, 1847
% Indexextra            : (Scans 1, 2)
% Latest update         : April 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org