भारतस्य विजयोद्घोषः
(उपजातिवृत्तम्)
बालप्रणाशः बुधवृन्दहानिं
बङ्गोद्भवानां वधमार्यनाशम् ।
दुवृत्तपाकैर्हृतदारस्बन्धुं
विलोकयन् को लभते न क्षोभम् ॥
अनार्यपाकैर्भुवि भारते यो
व्यधायि घातः स्वविनाशहेतोः ।
दैत्य-प्रणाशार्थमभिप्रवृत्तो
दीप्ताशयोऽभूत् सफलो जनौघ ॥
पाकस्य भू-व्योम-समुद्रमध्ये
कृतं प्रहारो वर-भारतीयैः ।
योधैस्तथा येन समग्रमेव
पाकस्थलं प्राप विनाशलीलाम् ॥
संप्रेक्ष्य वीरान् वर-भारतीयान्
निराशया शनत्रुप्रवीर-योधाः ।
सन्त्यज्य शस्त्राणि गृहाणि युद्धं
भयाकुलाः स्वात्मसमर्पणं दधुः ॥
जगत् समग्रं प्रविलोक्य शौर्यं
जय-ध्वनिं सन्तनुते समोदम् ।
शौयप्रकर्षाहित कीर्ति-लक्ष्मी-
र्विराजते भारतभूर्मनोज्ञा ॥
Proofread by Mandar Mali