भारत सुषमा
जयति भारतवर्षदेशः
अमर-वीर - यशस्सुमानाम्,
वश्यकर कल - कुङ्कुमानाम्,
सुरभिभिर्भूखण्डमखिलं मोहयति मदमुग्धवेषः ।
जयति भारतवर्षदेशः ।
यस्य पदकमलं निकामम्,
नव-नृपति-नयनाभिरामम्,
ऊर्भिभिः स्नपयति सुसरलैर्भक्तिनम्रो निम्नगेशः ।
जयति भारतवर्षदेशः ।
आगगनमायस्त - कायः,
हेममण्डित - हिमनिकायः,
उत्तरस्यां यस्य खेलति मुकुटमिव पृथपर्वतेशः ।
जयति भारतवर्षदेशः ।
सुर-सुलभ सुषमा - निकेतः,
यत्र हरति न कस्य चेतः,
पावनो गाङ्ग-प्रवाहः स्वर्विहस्य विहित-निवेशः ।
जयति भारतवर्षदेशः ।
यत्र बुद्ध-विरक्ति - गीतम्,
गीयते प्रतिगृहमतीतम्,
यत्र कृष्णार्जुन-कथा गीता जयति कर्मोपदेशः ।
जयति भारतवर्षदेशः ।
यत्र रे, राणा प्रतापः,
विहित-रिपुकुल - तीव्रतापः,
विजयि-शिवराज-प्रबल-पदसैन्य-दलबल-चलितशेषः ।
जयति भारतवर्षदेशः ।
पद्मिनीव बभूव भूतिः,
यत्र राजकुल - प्रसूतिः,
विजयते स्म विजित्य शत्रून् यत्र रे विक्रमनरेशः ।
जयति भारतवर्षदेशः ।
यत्र कविगुरु-कालिदासः,
यत्र हर्ष कला - विलासः,
यत्र भवभूते विभूतेर्भाति करुणालय-विशेषः ।
जयति भारतवर्षदेशः ।
यत्र तुलसी - सूरदासौ
अभवतां वाणी-विलासौ,
यत्र मीरा, भारतेन्दुः, भूषणः कविकुलदिनेशः ।
जयति भारतवर्षदेशः ।
मदन मोहन - मालवीयः,
अजनि जनसेवी यदीयः,
धर्मभारभृतां धुरीणो विहित-नृपनीतिक-गवेषः ।
जयति भारतवर्षदेशः ।
यस्य गान्धी सूत्रधारः
स्वर्गतो दिव्यावतारः,
पृच्छति ``प्रणयी'' कबीन्द्रान्नास्त्ययं कस्माद्विशेषः ।
जयति भारतवर्षदेशः ।
- कविवर्यश्रीरामनाथपाठक ``प्रणयि'' महोदयानाम् ,
आरामण्डलवास्तब्यानाम् ।
Proofread by Mandar Mali