भारतप्रशस्तिः
वेदभाभासितं सत्कलालासितं
रम्यसङ्गीत - साहित्य - सौहित्यभूः ।
भारती - वल्लकी - झङ्कृतैर्झड्कृतं
भूतले भाति मेऽनारतं भारतम् ॥ १
जाह्नवी-चन्द्रभागा-जलैः पावितं
भानुजा-नर्मदा-वीचिभिर्लालितम् ।
तुङ्गभद्रा - विपाशादिभिर्भावितं
भूतले भाति मेऽनारतं भारतम् ॥ २
विन्ध्य-सह्याद्रि-नीलाद्रि-मालान्वितं
शुभ्र-हैमाद्रिहास-प्रभापूरितम् ।
अबूर्दारावली-श्रोणि-सम्पूजितं
भूतले भाति मेऽनारतं भारतम् ॥ ३
अर्थकामान्वितं धर्ममोक्षान्वितं
भक्तिभावान्वितं ज्ञानकर्मान्वितम् ।
नैकमार्गेः प्रभु चैकमाराधयद्
भूतले भाति मेऽनारतं भारतम् ॥ ४
संस्कृतं प्राकृतं तामिलं तेलुगुं
कन्नडं केरलीं बाङ्गलामाङ्गलाम् ।
वाचमन्यां च तां तां ब्रुवद् वर्धते
राष्ट्रभाषायुतं मामकं भारतम् ॥ ५
व्यास-वाल्मीकि-रत्नाकरैरुज्ज्वलं
स्वादु - कादम्बरी - पानलुब्धं सदा ।
कालिदासेन भासेन सन्द्योतितं
भूतले भाति मेऽनारतं भारतम् ॥ ६
यत्र मन्दाकिनी पापसंहारिणी
यत्र गोदावरी चारुसञ्चारिणी ।
देववाणी च यत्रास्ति मोदाकुला
भूतले भाति तन्मामकं भारतम् ॥ ७
- डा० रमाकान्तशुक्लप्रणीतात्
``भाति मे भारतम्'' काव्यात् ।
Proofread by Mandar Mali