भारतगीतिका इदं भारतम्
इदं भारतं नो जननी जन्ममही
इदं भारतं यस्य जगति तुलना न हि
इदं भारतं नो जननी जन्ममही
इदं भारतं यस्य जगति तुलना न हि
स्नेह-अनुराग-मैत्रीसुबन्धनैः (२)
बन्धयति सर्वदा हि (२) ॥ ध्रुवम्॥
शिरसि मौलीकः स्वरूपविशालतुङ्गहिमालयधरा ।
तव श्रीपादयोः स्रवति शीतलसप्तसिन्धुवारिधारा । (२)
यस्य वक्षसि कोटिनिर्झरिणी प्रवहति
यस्य कटीरे विन्ध्यगिरिवरो विलसति
प्रतिधूलिकणः प्रतिजलविन्दुः (२)
गायन्ति तन्नाम हि (२) इदं भारतम् ॥ १॥
हारिताभरणभूषितरुचिरकमनीयरूपकान्तिः
सुगौरवमयकलितसौरभ-अक्षयपूरितकीर्त्तिः (२)
यस्य प्राणेषु शंनोदेवी सा ममतामयी
यस्य पादयोः कृपावर्षिणी मङ्गलमयी
तस्य भारतस्य अमृतसन्तानाः(२)
विश्वकल्याणाय हि (२) इदं भारतम् ॥ २॥
अनुवादकः- डाॅ प्रदीप्तकुमारः नन्दः
केन्द्रापडा, ओडिशा
Translated from Odia song to Sanskrit, encoded, proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
Translation from Odia song