भारतभूमिर्विलसति

भारतभूमिर्विलसति

भारतभूमिर्विलसति । वैदिक-सौगत-नास्तिकचार्वाकार्हत-प्रभृतिबहुधर्माः वादे वादे बोधं, यत्र लभन्ते मुदोत्फुल्लाः ॥ १॥ औदार्यं धार्मिक्यं आध्यात्म्यं नित्यप्रगतिशीलत्वम् । अन्ये चापि यदीयाः, विश्वस्मिन् सद्गुणाः ख्याताः ॥ २॥ प्रकृतिविलासो यस्यां, विकिरति हासं स्वकीयमवदातम् । कष्ट सहिष्णुत्वं च, यस्याः प्रकृतौ सहजसिद्धम् ॥ ३॥ विरोधिनां तत्त्वानां, सत्त्वानाञ्चापि विषमवृत्तीनाम् । समन्वयं या कुरुते, नवनवशोभाभिवृद्ध्यर्थम् ॥ ४॥ आशावादरतायाः, आदर्शोद्घोषणा सुनिपुणायाः यस्या निखिलापीयं, वसुधैव कुटुम्बकं भवति ॥ ५॥ लोकोत्तरचरितानां, लोकाराधन नियुक्तमनुजानां या जन्मभूमिरुदिता, रुदिता अपि यत्र हसिताः स्युः ॥ ६॥ स्नेहं दयां च सौख्यं, जायामपि यत्र लोकपूजार्थम् । मुञ्चन् रामोऽद्यापि भगवानिव पूज्यते लोकैः ॥ ७॥ गीता गङ्गा गावो, गीर्वाणगवी तथा च गीतानि । ग्रामाः गुरवो ग्रन्थाः, यस्या गरयन्ति गरिमाणम् ॥ ८॥ अक्रोधेन क्रोधं, साधुतया चाप्यसाधुतासरणिम् । दानेन या कदर्यं, जयेदहिंसाबलेन हिंसां च ॥ ९॥ सत्पुत्राणां हि यथा, कुपुत्रकाणां तथैव या चेष्टाः । समबुद्ध्या किल सहते, यतो न माता कुमाता स्यात् ॥ १०॥ वाणीविहारशीला, शीलाब्धितरङ्गिता जलधिरशना । सुजला सुफला शस्यश्यामा सुखदा तथा वरदा ॥ ११॥ अगणितगुणगणपूर्णा, चित्रविचित्रैर्जनैस्सदा लसिता । आर्या भारतभूमिर्विलसति जगतीतले सेयम् ॥ १२॥ जय भारतभूमे ! (संस्कृतकाव्यम्) रचना - डाॅ. रमाकान्त शुक्लः Proofread by Mandar Kulkarni
% Text title            : Bharatabhumirvilasati
% File name             : bhAratabhUmirvilasati.itx
% itxtitle              : bhAratabhUmirvilasati (ramAkAntashuklena virachitaM gItam)
% engtitle              : bhAratabhUmirvilasati 
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Ramakant Shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Acknowledge-Permission: Dr. Ramakant Shukla, Devavani Parishad, Delhi
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org