भारत-भारती-वैभव वैशिष्ट्यम्

भारत-भारती-वैभव वैशिष्ट्यम्

अस्माकं भारतीयानां दशा शोच्याऽभवत् यदा । संस्कृतां संस्कृतिं त्यक्त्वा जाता वैदेशिका यथा ॥ १॥ आचार्यवर्यपादानां (श्रीजीनां)कृपया लभ्यतेऽञ्जसा । भारतभारत्योश्च वै वैभवं यत्प्रवर्तितम् ॥ २॥ साहित्यं विपुलं लोके संस्कृतस्यापि भारते । भाषाभावार्थगाम्भीर्यैरेतदेव हितावहम् ॥ ३॥ कां दिशीकां गताश्छात्राः आहिण्डन्तेऽत्र भारते । हितं तथ्यं वचः श्रोतुं परं वक्ता न लक्ष्यते ॥ ४॥ श्रीश्रीजीभिर्विना कोऽत्र त्राता भविमतुर्हति । एतत्तैश्च विचार्यैव ग्रथितं लघुशास्त्रकम् ॥ ५॥ सर्वेषामेव लोकानां हितं तथ्यं सुखप्रदम् । विशेषतस्तु छात्राणां परमोपकृतिप्रदम् ॥ ६॥ अनुशासनहीना ये छात्राः कर्मपथच्युताः । सुरद्रुश्चैव तेषां तु गृहस्थानाञ्च कामगौः ॥ ७॥ हिमालयादिनागानां गणना चापि सत्कृता । सप्तपुर्यश्चतुर्धाम, गङ्गाद्याः सरितस्तथा ॥ ८॥ दिवाकरनिभप्रख्याः ज्योतिर्लिङ्गास्सृता मुदा । करामलकतत्तीर्थ-यात्राफलप्रदायकम् ॥ ९॥ धर्मयुक्तो राष्ट्रवादः कर्मवादश्च नैतिकः । राष्ट्रभक्तिर्हरेर्भक्तिर्मणिकाञ्चनयोगवत् ॥ १०॥ उपदेशवचोऽमूल्यं शिवं सत्यं मनोहरम् । सम्मतं वेदशास्त्राणां लोके चाऽभ्युदयङ्करम् ॥ ११॥ प्रायः पदावली कान्ता कोमल गीतिका परा । ईदृग्विधान कुत्रापि दृश्यतेऽञ्जसा भृशम् ॥ १२॥ लघुरूपमिदं शास्त्रं गागरे सागरी यथा । किंस्वित् त्रिवेणिरूपेण सर्वपापप्रणाशकम् ॥ १३॥ रचना - व्याकरण-वेदाध्यापकः पं. परशुरामशरण भारद्वाजः श्रीनिम्बार्काचार्यपीठं Introduction to the composition Bharat Bharati Vaibhavam of Shri Shriji Maharaj of Nimbarkapeeth. Encoded and proofread by Hemangai Rane
% Text title            : Bharata-Bharati-Vaibhava Vaishishtyam
% File name             : bhAratabhAratIvaibhavavaishiShTyam.itx
% itxtitle              : bhAratabhAratIvaibhava vaishiShTyam
% engtitle              : bhAratabhAratIvaibhava vaishiShTyam
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Parashuramasharana Bharadvaj
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Hemangi Rane
% Proofread by          : Hemangi Rane, NA
% Description-comments  : Introduction to Bharat Bharati Vaibhavam book by Shriji Maharaj
% Indexextra            : (Scan)
% Latest update         : March 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org