श्रीमद्भागवतदर्शनं जगन्नाथदासश्च

श्रीमद्भागवतदर्शनं जगन्नाथदासश्च

लेखकः - नन्दप्रदीप्तकुमारः ``पञ्चसखा'' उत्कलीय-शब्दविशेषः । अनेन पञ्चानां महापुरुषाणां संयोगो नामोल्लेखो जायते । तेषु बलरामदास-जगन्नाथदास-अच्युतानन्ददास-यशोवन्तदास- शिशु अनन्तदासादयः स्मरणीयाः, नमस्याः, अनुकरणीयाः, सम्माननीयाश्चेति सर्वादौ प्रतिभाति । तेभ्यो नमोनमः । पञ्चमहापुरुषेषु जगन्नाथ अन्यतमः स्वतन्त्रः । सर्वे पञ्च द्वापरयुगीय-श्रीकृष्णस्य सखाय भवन्ति । तथाहि उत्कलीये- ``द्वापरे सुबाहु सुबल श्रीवत्स नामेण गोपाल । दाम सुदाम आदिकरि । ए पञ्च गोपाल ये सरि ॥ प्रभुङ्क सङ्गे जन्म हेले । पञ्चसखा नाम बहिले ॥ पाञ्चंहे कृष्ण मनु जात । भकत श्रेष्ठङ्क महत ॥'' ओडिआ साहित्ये प्राचीन-संस्कृतौ इतिहासे च कविकुलतिलकस्य ओडिआ-भागवतकार-प्रख्यात-संस्कृतज्ञ-महापौराणिक-जगन्नाथदासस्य नाम अविस्मरणीयं चिरभास्वतं समुज्ज्वलरत्नं विकसतितराम् । ओडिआ भागवतं वेदव्यासप्रणीतभागवतस्य नानुवादमात्रम् । मौलिकं रसायितं सत्किमपि वैशिष्ट्यमावहति विद्वत्समाजे भक्तानां हृदयगुहायाम् । भेदस्तावत्संस्कृतभागवते ३३५ अध्यायाः, ओडिआ भागवते ३४२ अध्यायाः सन्ति । संस्कृतभागवते अष्टादश सहस्रमन्त्राः ,ओडिआ भागवते तु २७१६० नवाक्षरपदानि विलसन्ति इत्यनयोर्विशेषो वैभवो जगन्नाथस्य । संस्कृतभागवतस्य अतिजटिलतत्त्वं तेनोत्कलभाषया सम्बोधितम्, सरलीकृतं भावगम्भीयायितं च दरीदृश्यते पठन-पाठनावसरे । अस्य जन्मदिनाङ्कविषये बहुविधानि मतान्तराणि सन्ति । मुख्यतः कौशिकगोत्रिय-दाश इत्युपाधिमण्डित-महात्मा-जगन्नाथदासः १४१३ शकाब्दे पुरीमण्डलान्तर्गत-कपिलेश्वरपुर-शासनवास्तव्ये पितुः भगवानदाशस्य तथा मातुः पद्मावत्याः दक्षिणकुक्षौ भाद्रवमासस्य १४ दिवसे शुक्लाष्टम्यां तिथौ सौरिवासरे/ बुधवासरे वा मध्याह्नसमये अनुराधानक्षत्रे वृश्चिकराशौ एकस्मिन् दरिद्र-ब्राह्मण-परिवारे समजनि । ऐतिहासिकानां मतानि सन्निरीक्ष्य भारतीयपञ्जिकानुसारं तज्जयन्ती १३/०८/१९९१ ख्रीष्टाब्द इति निश्चिता कतिपयैर्विद्वांसैः । चैतन्यदेवेन सह तस्य साक्षात्कारः १५१० ख्रीष्टाब्दे पुर्यां ऊनविंशति वयसि सञ्जातः । महाप्रयाणं च षष्ठीति वयसि मकरमासस्य शुक्ल-सप्तम्यां द्विजानक्षत्रे अर्थात् २५/०२/१५५० दिनाङ्के बभूव इति सप्तदशशताब्दीय-कवि- दिवाकरदासविरचितात् जगन्नाथ चरितामृतात् ज्ञायते । अत्र तेन अभाणि- श्रीकृष्णस्य हास्यात् श्रीचैतन्यस्य तथा श्रीराधायाः हास्यादस्य महानुभावस्य जगन्नाथदासोत्पत्तिः सम्बभूव । यच्चोक्तमुत्कलभाषया- ``श्री वैकुण्ठ नित्यधामे । श्रीराधाकृष्ण एक प्रेमे ॥ एकात्मा भावरेण छन्ति । कोटि युगे भङ्ग नुहन्न्ति ॥ श्रीराधा मुख चांहि हरि । मन्दे मधुर हास्य करि ॥ से हास्य मधुर अमृत । तंहु चैतन्य हेले जात ॥ येंहु दुहिङ्क एक भाव । राधा हसिले तहुं लव ॥ से हास्यु जन्मिले तुरित । श्रीअतिबड जगन्नाथ ॥ से वेनि निजाङ्ग चांहि । जाणिले भकति अंशै ॥ आज्ञा देले नित्य ठाकुर । तुम्भे जन्मिब मर्त्यपुर ॥'' इति भक्तश्रेष्ठ-जगन्नाथः अवतारिपुरुष आसीदिति न सन्देहस्यावकाशः । उत्कलीयकवि-नन्ददासस्य ``अणाकार संहितायां'' इत्थं वर्णितमास्ते तज्जन्मप्रसङ्गे । तथाहि- ``एबे ये जगन्नाथ जन्म । कहिबा शुण हो अर्जुन ॥ पुरुषोत्तम ये क्षेत्ररे । जन्मिबे ब्राह्मण कुलरे ॥ राधाङ्क प्रेम भजन रे । चित्त बुडाइ निरन्तरे ॥ करिब नाम भागवत । धरिब श्रीहरिङ्क मत ॥'' अपि च गोपालखण्डककृत- ``पद्मकल्पपुराणे'', रामदासविरचिते ``दार्ढ्यताभक्तिरसामृते'', चन्द्रचूड चैनीकृत-``चकडाबसाणे''ऽपि महापुरुष-जगन्नाथविषये तत्कृतभागवतविषये च पर्याप्ततथ्यमुपलभ्यते । दिवाकरमिश्रप्रणीते ``नित्यगुप्तमणि'' नामके संस्कृतग्रन्थे बलरामदासात् जगन्नाथदासस्य दीक्षाग्रहणं, प्रतापरुद्रदेवस्य राज्ञै गौरीपाटमहादेव्यै दीक्षादातुं चैतन्यदेवस्यादेशेन जगन्नाथदासस्य नारीरूपग्रहणप्रसङ्गमधिकं रोचकं मनोरञ्जनं च कारयति । अयं वृत्तान्तः चैतन्यभागवतं तथा जगन्नाथचरितामृतं द्रढयति । वृन्दावनदास-विरचिते ``जगन्नाथ सुधात्रय'' पुस्तके वर्णितं एकदा प्रतापरुद्रदेवेन श्रीजगन्नाथदर्शनोपरान्ते आगच्छ्ता बटगणेशनिकटे समुपस्थितं जगन्नाथदासमष्टभुजकृष्णरूपेण ददर्श, विस्मयाभिभूतो बभूव च । यच्चोक्तं- अष्टबाहु-जगन्नाथ-दासो वंशीधनुःशरान् । शङ्खचक्रगदापद्मबिभ्रच्छामोऽभवत्तदा ॥ षोडश-शताब्द्यां बङ्गीयवैष्णवकविना देवकीनन्दनेन ``वैष्णव वन्दन'' पुस्तके जगन्नाथदासविषये इत्थं लिखितं - ``जगन्नाथ दास वन्दि सङ्गीत पण्डित । यार गान रसे जगन्नाथ विमोहित ॥'' अपि च जीवगोस्वामिना वैष्णव वन्दनायां -``वन्देऽहं जगन्नाथं यद्गानात् तरवोऽरुदन् विवशा इव'' । एतदतिरिक्तं परवर्तिभिरालोचकैरपि जगन्नाथदास-विषये पर्याप्त-प्रबन्धाः विलिखिताः । तेषु १८९७-९८ ख्रीष्टाब्दे एसिआटिक् पत्रिकायां प्रकाशितः मनोमोहन चक्रवर्त्तेः प्रबन्धः प्रकाशितः । अन्येषु १९२३ ख्रीष्टाब्दे तारिणी चरण रथ सम्पादिते ``ओडिआ साहित्यर इतिहासे'' , १९२३ प्रकाशिते विजय चन्द्र मजूमदार विलिखिते ``Typical selection froM oriya literature'' पुस्तकस्य प्रथमखण्डस्य मुखबन्धे, १९२१ प्रकाशिते अपर्णा पण्डायाः ``छान्द चन्द्रिकायां'' , सत्यवादि-पञ्चमखण्डे, गोपीनाथ नन्द विलिखिते ``जगन्नाथ दास ओ ओडिआ भागवत'' शीर्षके प्रबन्धे, राजकिशोर दाश-सम्पादिते ``ओडिआ भागवतर मुखबन्धे'' , १९२१ मसिहायां पण्डित-सदाशिव-मिश्र-विरचिते ``अतिबडी श्रीजगन्नाथ गोस्वामी'' पुस्तके, १९२८ षु पण्डित-विनायक-मिश्र-विरचिते ``ओडिआ साहित्यर इतिहासे'' , १९२९ प्रकाशिते जगबन्धु-सिंह-रचिते ``प्राचीन उत्कलर ओडिआ भाषा ओ साहित्य आलोचना'' नामके पुस्तके, १९४१ सम्पादिते राय-बाहादुर-चिन्तामणि-आचार्यस्य ``भक्त कवि जगन्नाथ दास'' पुस्तकादिषु अस्य महापुरुषस्य वर्णनं मिलति । अस्मिन् कार्ये अन्ये महानुभावाः सूर्यनारायण-दाशः, प्रभात-मूखार्जिः, विमान-विहारी-मजूमदारः प्रमुखाः बङ्गीयाः, डः मायाधर-मानसिं, पण्डित-नीलकण्ठ-दासः, नरेन्द्र-नाथ-मिश्रः, व्रजमोहन-महान्तिः, चित्तरञ्जन-दासः अपि च डः हरेकृष्ण-महताबः प्रमुखाः गुणिनो विद्वांसः जगन्नाथ दासस्य महिमानं स्व स्व ग्रन्थेषु वर्णयन्ति स्म । एते सर्वे आलोचकाः दिवाकर दास-प्रणीतं जगन्नाथ चरितामृतमतं समर्थितवन्तः ॥ जनश्रुतिः किम्वदन्ती भवतु नाम । किन्तुमस्यालौकीकमैतिहासिकसत्यं लुक्कायितमिति अन्यथाकर्तुं न शक्यते । तस्मान्नावहेलनीया जनश्रुतिः । उदाहरण-प्रसङ्गेन जगन्नाथस्य पिता भगवान दाशः श्रीमन्दिरे पुराणपण्डा आसीत् । तन्माता पद्मावती प्रत्यहं श्रीमन्दिरं पतिना सह पुराणश्रोतुमायाति स्म । संस्कृतभागवतस्य क्लिष्टशब्दान् वेत्तुं साऽसमर्था । एकदा सा स्वपुत्रं जगन्नाथं कथितवती । पुत्र ! मदर्थं ``ओडिआ'' भागवतं विरचय ॥ मातुरादेशेन सः ``नवाक्षरी'' वृत्तेन ओडिआ-भाषया द्वादश-स्कन्धात्मकं श्रीमद्भागवतं रचितवानीति । जगन्नाथ दासः प्रेमभक्तेरुपासकः अनन्य भक्त आसीत् । प्रख्यात-योगिनः परिचय-प्रसङ्गे जगन्नाथ-चरितामृते दिवाकरो वक्ति- ``द्वादश प्रेम ए जाणै । एडे प्रेम भावुक कांहि ॥ ए अन्ते छतिश वरस । प्रेम साधिले अहर्निश ॥ षाठि वरस देहादिरे । प्रेम स्थापि स्थले गमिले ॥ राधाङ्क प्रेमे जरजर । चित्त बुडै निरन्तर ॥'' इति जगन्नाथस्य प्रेमभक्त्या सह तस्य परमायुरपि निर्दिशति ॥ चैतन्यः स्वयं जगन्नाथदासाय अतिबड उपाधिं दत्तवान् । अस्मिन् प्रसङ्गे एका रोचका कथा श्रूयते । एकदा जगन्नाथदासः वटगणेश निकटे भागवत-व्याख्यानं कृतवान्नासीत् । अस्मिन् समये चैतन्यदेवः स्व-भक्त्यै सार्धं तत्रागतः । कियत्कालं जगन्नाथस्य व्याख्यानं श्रुत्वा आध्यात्मिकोन्नतिं च सन्निरीक्ष्य होरैकं यावत् भावविह्वलितो बभूव । जगन्नाथमालिङ्ग्य तस्मै ``अतिबडी'' इति सम्बोधितवान् । तदापरेद्युः सर्वे जगन्नाथदासं अतिबडीति सम्बोधयामासुः । तद्यथा लीलामृते- ``एहि समये श्रीचैतन्य । सङ्गते घेनि सखागण ॥ वट तलरे विजे कले । पुराण शुणि तोषहेले ॥ प्रेम भावरे श्रीचैतन्य । दासङ्कु कले आलिङ्गन ॥ अढाइ दिवस पर्यन्त । वेनि रहिले प्रेमचित्त ॥'' इति उभययोः पारस्परिकं प्रेम अन्यतमम् । चिराचरितम् । मानव-संस्कृतेः परिपूरकम् । यतो हि स्नेहः अथवा प्रेम मानवस्य सहजात-प्रवृत्तिः । अस्याः समुद्भवः केवलं भागवत-पाठेन जायते । सेव्य-सेवक-भावेन तस्योत्पत्तिश्रवणात् । तस्मादप्राकृतभाष्यात्मकं श्रीमद्भागवतं सर्वश्रेष्ठदर्शनम् । अस्मिन् दर्शने प्रेमभक्तेः मूल्यबोधः वस्तुस्थितिश्च यथार्थतया शिक्ष्यते । विज्ञानी भक्तः जगन्नाथदासः जगन्नाथदेवस्य अनन्य-भक्त आसीत् । ज्येष्ठ-बलरामदासात् स दीक्षां नीतवान् ॥ नृसिंहः श्रीक्षेत्रस्य आदिपूज्य आसीत् । तं सर्वे यज्ञनृसिंह इति कथयन्ति । भागवतस्य अनुवादारम्भे निर्विघ्नयायै नृसिंहं तुतोष सः । तस्यानुवादः स्वतन्त्रः । भक्तिविगलितः । मूल-संस्कृतभागवते आदिमः श्लोकस्तावत्- ``जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्महृदा य आदिकवयो मुह्यन्ते यत्सुरयः । तेजो वारिमृदां यथा विनिर्मयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥'' अस्यानुवादः जगन्नाथस्य कोमलभाषया- ``नमै नृसिंह चरण । अनादि परम कारण ॥ या बिनु आदि मध्य अन्त । विचारे न घटे जगत ॥ इन्द्रिय अर्थ ये जाणै । स्व तेजे नित्य प्रकाशै ॥ आनन्द मने वेद सार । ब्रह्माण्डे ये कला विस्तार ॥ यार स्वरूप हृदे चिन्ति । वेद पुरुष न जाणन्ति ॥ मृत्तिका विकार येमन्त । जलरे हुऐ कल्पित ॥ जले उपल बुद्धि करि । मृगतृष्णारे येह्ने वारि ॥ रूप अरूप स्थिति तिनि । यार गोचरे अनुमानि ॥ स्वभावे नोहे से एमन्त । ए साङ्ख्ययोगीङ्कर मत ॥ आत्म प्रकाशे सदा थाइ । निरस्त कुहुक बोलाइ ॥ सत्य परमानन्द हरि । याहार भावे भबु तरि ॥ एमन्ते सत्य रूप यार । ता पादे मोर नमस्कार ॥'' इति जगन्नाथदासस्य अनुवादशैली न दुर्बोधा नापि आक्षरीकी । किन्तु परिस्फुटं सरलं सुललितं सावलीलं पदगाम्भीर्यं च स्वतस्तस्य जगन्नाथपण्डितस्य पाण्डित्यं प्रकाशयति , निःसन्देहमेव । जगन्नाथः पितुः सकाशात् सर्वाणि वेद-वेदान्त-कोश-साहित्य-पुराण-व्याकरणादिनि शास्त्राणि सम्यग्तयाऽधिगतानि । विवाहबन्धनात् दूरं गत्वा तेन चिर-ब्रह्मचर्यव्रतमनुष्ठितम् ॥ चैतन्यदेवस्य साहचर्येण तस्मात् अतिबड-उपाधि-विभूषितेन च बङ्गीयाः श्रीचैतन्याय क्रुद्धा आसन् । केचन चैतन्यं त्यक्त्वा याजपुरं जग्मुः । पश्चात् चैतन्यनिर्देशेन जगन्नाथः याजपुरमागतवान् । किन्तु ते जगन्नाथं त्यक्त्वा याजपुरात् वृन्दावनं प्रत्याजगाम । उच्यते असन्तुष्टान् चैतन्यभक्तानवबोधयितुं चैतन्यनिर्देशेन जगन्नाथदासः शिक्षाष्टकं विरच्य तेभ्यः श्रावयामास । किन्तु असफलो जातः ॥ जगन्नाथदासः सगुण-निर्गुणयोः, ज्ञान-भक्त्योः सफलः साधकः । आदर्शब्राह्मणः । वैष्णवसम्प्रदायस्य कर्णधारः । अनेन पञ्चसप्ततिग्रन्थाः ७५ सम्पादिता इति पण्डित कुरामणि पाठिविरचिते ``अतिबडी जगन्नाथ परिक्रमा'' पुस्तके प्रमाणम् । तेषु कतिचन श्रीमद्भागवतं, दारुब्रह्मगीता, पद्मकल्पटीका, ब्रह्माण्डभूगोलः, षोल चौपदी, ज्ञानसागरगीता, भक्तिसंहिता, कलिमालिका, अर्थकोइलि, कृष्णभक्ति कल्पलता, नीलाद्रिशतकं तुलाभिणादयः ग्रन्थाः प्रसिद्धाः दृष्टिपथमारोहन्ति कदाचित् ॥ जगन्नाथदासः उत्कलीयानां कृते दिव्यमहापुरुषः । महान् आत्मा । तस्य कवित्वशक्ति अतीव भावगम्भीरा । मृदु-मधुर-पद-सङ्घटित-कर्णरसायन-दिगन्तविस्तारी-परिमितिः भागवतानुवादस्य तस्य । शब्दालङ्कार-भास्वतो भावव्यञ्जक-परिसरे सर्वत्र उत्कलभूमौ गृहे गृहे मुखे मुखे सः परिचितः । समादरणीयं श्रीमद्भागवतं श्रद्धेयं पठनीयं पाठनीयञ्च सर्वदर्शनसारो वरीवर्ति ॥ --- लेखकः - नन्दप्रदीप्तकुमारः सहायक-ग्रन्थाः १- अतिबड जगन्नाथ दास- रत्नाकर कर १म १९३२ २- अतिबडी जगन्नाथ दास- डः कृष्ण चरण बेहेरा १म २००२ ३- अतिबडी जगन्नाथ दास- काली चरण पट्टनायक ३य १९६९ ४- अतिबडी जगन्नाथ परिक्रमा- नित्यानन्द शतपथी १म १९७५ ५- jagannath das- sitakanta mahapatra 1st 1989 ६- जगन्नाथ दास- डः भगवान पण्डा १म १९९३ ७- महापुरुष जगन्नाथ दास- सर्वेश्वर दास १म १९९४ ८- जगन्नाथ चरितामृत- दिवाकर दास १म १९६३ ९- श्रीमद्भागवत- नीलमणि मिश्र ३य २०१३ Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Shrimad Bhagavatadarshanam JagannAthadasa
% File name             : bhAgavatadarshanaMjagannAthadAsaH.itx
% itxtitle              : bhAgavatadarshanaM jagannAthadAsashcha (lekhaH)
% engtitle              : bhAgavatadarshanaM jagannAthadAsaH
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org