अयि जननि मां पाहि
अयि जननि मां पाहि नुतशरणचरणं
स्मेरमुखि जगदम्ब वितनु मयि करुणाम् ॥
मम वदनमनुवदतु तव पुण्यचरितं
श्रोत्रकुहरे पततु तव नाम शुभदं
कायोऽस्तु कुसुमवत् तव पूजनाय
प्राणा हि सन्त्वम्ब तव सेवनाय ॥
धनकनकतो भवति न हि सार्थकत्वं
पदवृद्धिधनकीर्तितो नैव सिद्धिः
तव पूतपदयुगलयोस्सदाश्रयणं
सकलजगदधिदेवि मम भवतु सततम् ॥
विदधामि जगदम्ब तव विजयघोषं
सह मित्रबान्धवैस्तारमनवरतं
इच्छामि दातुमहमधिगताधिकं
जन्मैतदतिफल्गु मम भवतु सफलम् ॥
Encoded and proofread by Shubha shubhazero at gmail.com