अनादित्वपरिष्कारः

अनादित्वपरिष्कारः

अनाद्यविद्यासचिवः करोति य इदं जगत् । स पायादनुकम्पार्द्रचेतांश्चन्द्रार्धशेखरः ॥ १॥ ननु किमिदमनादित्वमविद्यायाः? न ताव- त्प्रागभावाप्रतियोगित्वं, प्रागभावेऽतिव्याप्तेः । किं च, सिद्धान्ते मूलाविद्यायां लक्षणसमन्वयेऽपि तूलाविद्यानां सादित्वात्तास्वव्याप्तिश्च । न च ``मायां तु प्रकृतिं विद्यात्'' इत्यादिश्रुत्या मायैकत्वप्रतिपादनात्, मायाविद्ययोश्चैक्यात्, मूलाविद्याया एव लक्ष्यत्वमिति तूलाविद्यासु लक्षणासत्त्वमिष्टमेवेति वाच्यम्; ``इन्द्रो मायाभिः पुरुरूप ईयते'' इत्यादिश्रुत्यैकवाक्यता- सम्पत्तये ``मायां तु'' इत्यादिश्रुत्यन्तर्गतैकवचनस्य जात्येकपरतयैव नेयत्वात् । न च विनिगमना- विरहेण ``मायां तु'' इत्यादिश्रुत्यैकवाक्यतासम्पत्तये ``इन्द्रो मायाभिः'' इत्यादिश्रुत्यन्तर्गतबहुवचनस्य मायावृत्तिगतबहुत्वपरत्वमेवोचितमिति वाच्यम्; एवं ``अयमनादिरनन्तो नैसर्गिकोऽध्यासः'' इत्यादि- भाष्यविरोधापत्तेः । तत्रत्याध्यासपदस्याविद्यापरत्वात् । न च भाष्यस्थानन्तपदं नानेकत्वविशिष्टपरं, अपि तु नाशरहितपरमिति वाच्यम्; तथा सति ``अस्यानर्थहेतोः प्रहाणाय'' इत्यध्यासनाशप्रतिपादकभाष्यविरोधापत्तेः । तस्मात् ``इन्द्रो मायाभिः'' इत्यादिश्रुतिस्थबहुवचनं न मायावृत्तिगतबहुत्वपरं, किन्तु मायाबहुत्वपरमेवेति तूलाविद्यानामपि लक्ष्यत्वस्याङ्गीकृततया तासु च प्रागभावाप्रतियोगित्वरूपानादित्वस्याभावादव्याप्ते- र्दुरद्धरतया न प्रागभावाप्रतियोगित्वमनादित्वम् । न च तासां प्रवाहतोऽनादित्वमिति शङ्क्यं; प्रत्येकमविद्या- व्यक्तीनां सादित्वात्, प्रवाहस्य चावस्तुत्वादिति चेत् । अत्र केचित्- ``कालत्वव्यापकतावच्छेदकाविद्याकत्वमेव प्रवाहतोऽनादित्वं, कालत्वं चाविद्याचित्सम्बन्धः । इत्थं च यत्राविद्याचित्सम्बन्धरूपकालत्बं तत्राविद्यात्वा- वच्छिन्ना काचिद्व्यक्तिस्तिष्ठत्येव । सम्बन्धसत्त्वस्य सम्बन्धिसत्त्वव्याप्यत्वात्'' इत्याहुः । तन्न; अविद्यात्वे कालत्वव्यापकतावच्छेदकत्वं हि कालत्वाधिकरण- वृत्यत्यन्ताभावप्रतियोगितानवच्छेदकत्वमेव । तथा चाविद्याचित्सम्बन्धरूपकालत्वविगमेऽपि ब्रह्मणि तदधिकरणत्वं नापैति । यथा घट उत्पत्तिक्षणा- वच्छेदेन गन्धाभावेऽपि गन्धाधिकरणत्बं न हीयते । इत्थं च निरुक्तकालत्वाधिकरणे ब्रह्मणि मुक्ततादशायां कस्याश्चिदप्यविद्यात्वावछिन्नव्यक्तेरभावात् अविद्यात्वस्य निरुक्तकालत्वव्यापकतावच्छेदकत्वासम्भवात् ॥ गुरुचरणास्तु--प्रवाहतो अनादित्वं नाम-- स्वप्रागभावाधिकरणकालत्वव्यापकस्वसजातीयकत्वम् । यद्रूपावच्छिन्ने लक्षणं सङ्गमनीयं तद्रूपावच्छिन्नमेव स्वपदार्थः । स्वपदेताविद्याव्यक्तेः परिग्रहे स्वप्रागभावाधिकरणकालत्वं स्वपूर्वकाले तत्र चाविद्यात्वेन स्वसजातीयव्यक्तेर्नियमेन सत्त्वाल्लक्षण- समन्वयः । स्वप्रागभावाधिकरणकालत्वमित्यस्य सामानाधिकरण्यसम्बन्धेन स्वप्रागभावविशिष्ट- कालत्वमित्यर्थः । तथा च मुक्तदशायां ब्रह्मणि कालत्वाधिकरणत्वसत्त्वेऽपि स्वप्रागभावाभावान्न पूर्वोक्तदोषावकाशः ॥ यदि कश्चिद्ब्रूयात्-- ``सिद्धान्ते प्रागभावानङ्गीकारेण प्रागभावघटितोऽयं परिष्कारो न साधीयान्'' इति, तं प्रतिब्रूयात्-- सिद्धान्तेऽप्यसत्कार्यवादापत्तिभिया कार्याणां प्रागभावस्थानापन्नायाः प्रागवस्थायाः स्वीकार्यत्वात् । अन्यथा, मृद्येव घटः, क्षीर एव दधीत्यादिनियमभङ्गप्रसङ्गात् । तदेतत् ``युक्तेः शब्दान्तराच्च'' इति सूत्रव्याख्यानावसरे भगवत्पादै- रभ्यधायि । तथा च पूर्वोक्तपरिष्कारे प्रागभावस्थाने प्रागवस्थाया एव निवेशनीयत्वेन उक्तपरिष्कारस्य निर्दुष्टत्वात् । अधिकमन्यत्रानुसन्धेयमिति प्राहुः ॥ अनादित्वपरिष्कारादविद्याया यथामति । तुष्यन्तु सुधियस्त्वन्यगुणैककृतदृष्टयः ॥ १॥ ऐवं वा विन्यासः- प्रीयतां गिरिजाचित्तसरोरुहदिवाकरः ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः अनादित्वपरिष्कारः समाप्तः । Proofread by PSA Easwaran
% Text title            : anAditvapariShkAraH
% File name             : anAditvapariShkAraH.itx
% itxtitle              : anAditvapariShkAraH (shivAbhinavanRisiMhabhAratIvirachitaH)
% engtitle              : anAditvapariShkAraH
% Category              : misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org