अम्बे शारदे
अम्बे ! शारदे !
मातः ! सरस्वति !
पद्मासने स्थिता देवि सुविशारदे ॥ ध्रुवम्॥
वीणावादिनि, प्रज्ञादायिनि
पापप्रणाशिनि, पुण्यप्रकाशिनि
कुरु भास्वर भाषितं मनो मे
हे मातः ! सुविचारदे ! ॥ १॥
दुःखस्तप्त मरुस्थल जगतीं
मोदजलेन प्रहर्षय धरणीं
कला-विलास-ज्ञान-गरिमाणं
कुरू लोकं उपहारदे ! ॥ २॥
प्रातर्भवतु भक्तिराप्लावितं
सायं भवनु सुशान्त्या युक्तं
रात्री वर्षतु वरद-ज्योत्स्ना
जयति जगति जननि ! विस्तारदे ! ॥ ३॥
रक्षतु जनति जगत्कुविचारात्
निस्सारय कलषं संसारात्
देहि प्रबोधं मे अनुरोधं
पूरय पुण्यं, प्रसारदे ! ॥ ४॥
अम्वे शारदे!
-डाॅ श्रीमती गीरिबाला