अमृतस्य पुत्रा वयम्
अमृतस्य पुत्रा वयं
सबलं सदयं नो हृदयम् ॥
गतमितिहासं पुनरुन्नेतुं
युवसङ्घटनं नवमिह कर्तुम् ॥
भारतकीर्तिं दिशि दिशि नेतुं
दृढसङ्कल्पा विपदि विजेतुम् ॥
ऋषिसन्देशं जगति नयेम
सत्त्वशालिनो मनसि भवेम ।
कष्टसमुद्रं सपदि तरेम
स्वीकृतकार्यं न हि त्यजेम ॥
दीनजनानां दुःखविमुक्तिं
महतां विषये निर्मलभक्तिम् ॥
सेवाकार्ये सन्ततशक्तिं
सदा भजेम भगवति रक्तिम् ॥
- गु. गणपय्यहोळ्ळः
Encoded and proofread by Shubha shubhazero at gmail.com