अहं प्रभाते उत्तिष्ठामि
अहं प्रभाते उत्तिष्ठामि
मातापितरौ प्रणमामि ।
देवान् भक्तवरेण्यान् नत्वा
पठने मतिं विधास्यामि ॥
विना विलम्बं शालां गच्छन्
पाठ्यांशान् अवगच्छामि ।
सर्वान् विषयान् सम्यगधीत्य
बुद्धिविशदतां प्राप्नोमि ॥
शिष्टाचारान् साधुविचारान्
वृद्धिकरान् आकलयामि ।
विद्याभ्यासाचारविचारैः
सर्वश्रेष्ठतां विन्दामि ।
- जनार्दन हेगडे