अग्रे चल अग्रे चल
अग्रे चल, अग्रे चल !
निश्चिन्तो रिपुकुपितः सज्जश्चल पौरुषभानो ।
अग्रे चल, अग्रे चल, अग्रे चल, सैनिकबन्धो ॥ ध्रु०॥
बलं त्वदीयं हस्तिदुर्लभं
युद्धकौशलं व्याघ्रजयकरं
शौर्यं नितरां लज्जितसिंहं
चित्रं तव चिन्तितमपि नामयते धैर्यसुमेरो ॥ १॥
स्वेषां चिन्तां मा कार्षीस्त्वं
चितां परेषां रचय केवलं
रक्षिष्यामो मुदा त्वज्जनं
विस्मरेम स्वप्नेऽपि न वचनं स्वं सुकीर्तिसिन्धो ॥ २॥
तव पत्नी नः अग्रजपत्नी
जननी नान्या, निजैव जननी
सुतः सुता ते नो भाग्यखनी
रिपुनाशादपरं ते मनसि मास्तु आप्तजनमृदो ॥ ३॥
राष्ट्रस्यायं ममापकर्ता
इमं मूलतः अस्मि निहन्ता
अहं जीविता अयमेको वा
रणे रणे घोषस्तव उद्गच्छतु मानिजनेन्दो ॥ ४॥
शत्रुं दग्धुं वाञ्छच्चित्तं
दष्टे ओष्ठे तप्तं रक्तं
स्फुरिते बाहौ वलयं सक्तं
जयो जयो नियतस्तव जयो जयो भारतसूनो ॥ ५॥
रचयिता प्रा. अशोक अकलूजकर, कॅनडा