अष्टरत्नम्

अष्टरत्नम्

अर्थो व्योम तथा नित्यं ब्रह्मा भोगे शशिन्यपि । शशी निःस्वञ्च विज्ञेयमष्टरत्नमिदं क्रमात् ॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकेषु सुखानि तात ॥ १॥ व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि । दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ २॥ नित्यं छेदस्तृणानां क्षितिनखलिखनं पादयोरल्यपूजा दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्द्धजानाम् । द्वे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥ ३॥ ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने न्यस्तो महासङ्कटे । रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः सूर्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४॥ भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयम् । शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ ५॥ शशिनि खलु कलङ्कः कण्टकं पद्मनाले युवतिकुचनिपातः पक्वता केशजाले । जलधिजलमपेयं पण्डिते निर्धनत्वं वयसि धनविवेको निर्विवेको विधाता ॥ ६॥ शशी दिवसधूषरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शैलानि मे ॥ ७॥ निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति । चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्राह्मं पदं वाछति ब्रह्मा शैवपदं शिवो हरिपदं आशावधिं को गतः ॥ ८॥ इत्यष्टरत्नं समाप्तम् ॥ Encoded and proofread by Aaditya Kalyanaraman
% Text title            : Ashta Ratnam
% File name             : aShTaratnam.itx
% itxtitle              : aShTaratnam
% engtitle              : aShTaratnam
% Category              : misc, subhaashita, aShTaka, subhAShita
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scan 1, 2)
% Latest update         : December 10, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org