षड्रत्नम्

षड्रत्नम्

शास्त्र कोथीं स्तथा मूर्खो दानं दुर्मन्त्रिणन्तथा । लाभोप्यस्तीति विज्ञेयं क्रमात् षड्रत्नमीरितम् । शास्त्रं सुचिन्तितमथो परिचिन्तनीयं आराधितोऽपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवती परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥ १॥ कोर्थान् प्राप्य न गर्वितो विषयिनः कस्यापदो नागताः स्त्रीभिः कस्त्र न खण्डितं भुवि मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोर्थी गतो गौरवं को वा दुर्जनवाग्रसे प्रपतितः क्षेमेण यातःपुमान् ॥ २॥ मूर्खो द्विजातिःस्थविरो गृहस्थः कामी दरिद्रो धनवान् तपस्वी । वेश्या कुरूपा नृपतिः कदर्यः लोके षडेतानि विडम्बितानि ॥ ३॥ दानं दरिद्रस्यप्रभोश्च शान्तिर्यूनां तपो ज्ञानवताञ्च मौनम् । इच्छानिवृत्तिश्च सुखासितानां दयाचभूतेषुदिबन्नयन्ति ॥ ४॥ दुर्मन्त्रिणं कमुपयान्ति ननीतिदोषाः सन्तापयन्ति कमपथ्यभुजं न रोगाः । कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्त्रीकृता न विषया न नु तापयन्ति ॥ ५॥ लोभोप्यस्ति गुणेन किं पिशुनता यद्यस्ति किं पातकैः सौजन्यं यदि किं परैः सुमहिमा यद्यस्ति किं मण्डनैः । सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किं सद्विद्यिआ यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ६॥ इति षड्ररत्नं समाप्तम् । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : ShaDratnam
% File name             : ShaDratnam.itx
% itxtitle              : ShaDratnam
% engtitle              : ShaDratnam
% Category              : misc, subhaashita, ShaTkam
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scan 1, 2)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org