आराधयेम निजराष्ट्रम्
आराधयेम निज राष्ट्रं आराधयेम निज राष्ट्रम् ॥ ध्रु॥
तनुजं हृद्जं धनजं तनु-हृद्-धन जीवनजम् ।
आराधयेम निज राष्ट्रं आराधयेम निज राष्ट्रम् ॥ १॥
अन्तरजं मुखजं कृतिजं निश्चल निर्मलमति भाजः ।
श्रद्धया च विनतशिरस्काः अभिवादयेम निज राष्ट्रम् ॥ २॥
निजसहास शैशव सहितं निजविकसद्यौवन सहितम् ।
प्रौढिमयुत जीवन सहितं सम्पूजयेम निजराष्ट्रम् ॥ ३॥
सम्पठ्याऽतीतं स्वीयं परिवृत्यैतिह्यं स्वीयम् ।
ज्ञात्वा भवितव्यं स्वीयं सम्पूजयेम निजराष्ट्रम् ॥ ४॥
युगयुगजा वयं स्मरामो प्रज्वलितरनैक घटनाः ।
या मातुःसेवाय पथे कृत्वा या ता दुर्गमनाः ॥ ५॥
अस्माभिर्याष्वभिषीक्ताः जननीरिपुशोणितकुण्डैः ।
मण्डितातथाऽस्माभिर्या जननीरिपुगण शतमुण्डैः ॥ ६॥
अस्माभिः प्रतिष्ठिता याः सांस्कृतिक उच्चवरपीठैः ।
कृत्वाऽऽरूढ़ा साऽकाशीत् सततं जगतः शासनम् ॥ ७॥
अथ कालचक्रदुर्गत्या तद् भग्नमुच्चवरपीठम् ।
निज तनु-हृद्-वसूनि दत्वा आराधयेम निज राष्ट्रम् ॥ ८॥
आराधयेम निज राष्ट्रम् ।
अनुवादकः - डाॅ सुरेशचन्द्र टी व्यास