आदर्श शिक्षा पद्धतिः
(शार्दूलविक्रीडित वृत्तम्)
ज्ञानोद्रेक-प्रणांशिताखिलमला दुःखौघ-विध्वंसिनी,
कर्तव्याऽश्रयणे प्रवृत्ति-मति-दा दुष्कर्म-संहारिणी ।
लोकाऽज्ञान निवारणे धृतिमति- र्विज्ञान-धी-भास्वरा,
शिक्षा स्याज्जगता हिताय नितरां कल्याणधुक् कीर्तिदा ॥ १
लोकस्याऽभ्युदयं तनोति सततं निःश्रेयसः शासती,
लोके ज्ञान-तप-प्रमोद-सुख-धा दुखाऽऽधि-संहारिणी ।
सद्भावाऽऽश्रयता गता, गुणगणे निष्ठा दधत् सात्त्विकी,
शिक्षा-पद्धतिरस्तु सर्व-जगति क्षेमाय शान्त्यै श्रियै ॥ २
सा शिक्षा न, गुणोच्चयं गुणिजने नो पोषयेत् पुष्टिदा,
या नो जागरयेज्जने कृति-रतिं सत्ये च निष्ठा ध्रुवाम् ।
सा शिक्षा, श्रुति-शास्त्र-बोध-निपुणा या धर्म-वृत्ति प्रदा,
सच्चारित्र्य-प्रदान-तोषित-मन- कामा, न कामाश्रया ॥ ३
अज्ञानान्ध-तमः-प्रणोद-प्रवणा लोकोपकृत्येकदृक्,
पाषण्डादि-निवारणैक-मतिदा मोदावहा मानिनाम् ।
सद्वृत्तेन विवर्धिताऽखिल-गुणा या शस्यते ज्ञानिषु,
या देहाऽन्म-मनो विकास-रुचिरा शिक्षाऽस्तु सा श्रेयसे ॥ ४
सत्याऽचार-विचार-शिक्षण-परा, सार्वाङ्गिकीमुन्नतिं,
छात्राणां विदधद्, विवेक विनयाऽऽ चार-प्रचारैकधी ।
चारित्र्योन्नति-साधिका, गुणगणैः सारल्य-संसाधिका,
लोकेषु प्रचरेत् मुशिष्य-जनि-दा, शिक्षा सदा कामधुक् ॥ ५
Proofread by Mandar Mali