यदुशैलयोगनरसिंह सुप्रभातम्
। शुभमस्तु ।
जग्गू श्री वकुलभूषणकवि विरचितं
यदुशैलयोगनरसिंह सुप्रभातं
श्रीमते रामानुजाय नमः ।
श्रीमते नरसिंहाय नमः ।
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥
स्मृत्वा तातवधं स्वकारणभवं खिद्यन्नटन्भूतलं
प्रह्लादः प्रतिपद्य पर्वतममुं मोमन्तमन्तर्मुखः ।
सालग्रामतनुं तनुं नरहरे भोस्त्वां निधाय क्वश्चित्
स्नात्वैत्य त्वददर्शनात्स्तुतिपरस्त्वामाप सूषोऽस्तु ते ॥ १॥
योगीन्द्रमानससरोवरराजहंस
यद्वद्रिशृङ्गतटकन्दर भव्यवास ।
योगासनप्रकटिताश्रितकाङ्क्षितार्थ-
दानात्तयोग नृहरे तव सुप्रभातम् ॥ २॥
प्रह्लादरक्षणकृते नरसिंहरूपः
स्तम्भोदरान्ननु झडित्युदभूर्मुरारे ।
भक्तार्थमेवमविचिन्तितचित्रवेषः
भासि प्रभो नरमृगेन्द्र तव प्रभातम् ॥ ३॥
चक्रायुधोऽपि नखदारितशत्रुवक्षाः
चन्द्राननोऽपि धृतसिह्यमुखो मुकुन्द ।
कण्टार्पितायतसिरो वनमाल्यपीदं
भक्तार्थमेव ननु ते नृहरे प्रभातम् ॥ ४॥
प्रह्लादभक्तिभरवश्यमना मुरारे
तत्प्रार्थनानुगुणमत्र नृसिंहरूपः ।
अर्च्याकृतिर्विलससि प्रतिपन्नयोगः
वात्सल्यमाश्रितजने बत ते प्रभातम् ॥ ५॥
उत्तुङ्गशृङ्गमधिरुह्य कुतस्स्थितोऽसि
वृद्धोऽपि दूरगत भक्तजनेक्षणार्थम् ।
किंवा सुदृष्टचर एव जरत्स्वभावः
वात्सल्यकार्यमिदमच्युत ते प्रभातम् ॥ ६॥
कल्याणदिव्यसरसीप्रतिबिम्बितोऽयं
यद्वद्रिशृङ्गविततोच्छ्रितगोपुरोऽपि ।
प्रातः पवित्रसलिले ननु मज्जतीव
श्रीमन्नृसिंह तदभूत्तव सुप्रभातम् ॥ ७॥
श्रीयादवाद्रिरमणीयविशालसानु-
वृक्षेषु सुप्तिमपहाय पतत्रिणोऽपि ।
कूजन्ति कर्णमधुरं तव जागराय
यद्वद्रिदीप नृहरे तव सुप्रभातम् ॥ ८॥
त्वय्याहिताखिलभरा मनुजास्सभक्ति
कल्याणतीर्थमवगाह्य धृतोर्ध्वपुण्ड्राः ।
त्वन्मन्दिराङ्कणतटे फलपुष्पहस्ताः
तिष्ठन्ति नाथ नृहरे तव सुप्रभातम् ॥ ९॥
प्रालेयशीतलतरङ्गवहाष्टतीर्थ-
पूताम्बुशीकरकणोद्वहनातिमन्दः ।
सानुप्ररूढसुमसन्ततिगन्धवाही
वाति प्रभो मरुदये तव सुप्रभातम् ॥ १०॥
तीर्थाभिषेकसमये नरसिंह सान्द्र-
हारिद्रचूर्णपरिकर्मितसर्वगात्रः ।
साक्षाद्गुहान्तरगतो व्रत केसरीव
संदृश्यसे यदुगिरौ तव सुप्रभातम्ः ॥ ११॥
भक्तार्थमेव यदुशैलतटे निषण्णः
वात्सल्यसोढजनतारचितापराधः ।
सौलभ्यकृष्टजनचित्तविलोचनोऽसि
श्रीमन्नृसिंह यदुशैलपते प्रभातम् ॥ १२॥
अष्टोत्तरोत्तमशतस्थलसारभूते
विख्यातदक्षिणबदर्यभिधे मनोज्ञे ।
श्रीयादवाचलतटे कृतसन्निधान
योगासनस्थ नृहरे तव सुप्रभातम् ॥ १३॥
धृत्वात्मपाणियुगलेन च शङ्खचक्रे
हस्तद्वयेन परिदर्शितपादपद्मः । (पादयुग्मः)
एतद्वयाङ्कितभुजा इदमाश्रयध्व-
मित्यादिशस्ययि किमत्र हरे प्रभातम् ॥ १४॥
मर्त्यालिदुष्कृतगजव्रजपिङ्गदृष्टे
पञ्चाग्र्यभागवतसेवितपादपद्म ।
भक्तार्पिताखिलपरिष्करणोज्वलाङ्ग
यद्वद्रिनाथ नृहरे तव सुप्रभातम् ॥ १५॥
वृक्षात्मतामुपगता इह सूरयोऽपि
पुन्नागचम्पकरसालमुखस्वरूपाः ।
शाखाभुजाग्रविधृतप्रसवाः पिकालि-
नादोच्चसाममुखरास्तव सुप्रभातम् ॥ १६॥
वक्षस्स्थलेन कमलां सततं वहन्सन्
योगैकसक्तहृदयोऽसि विचित्रमेतत् ।
भक्तेष्टदः पुरुषकारमपेक्षसे वा
नूनं नृसिंह यदुशैलपते प्रभातम् ॥ १७॥
योगासनस्थमुरुलम्बितजानुबाहुं
स्तोकावनम्रवदनं कुटिलभ्रुवञ्च ।
पृच्छन्तमागतसुखागमनन्त्विव त्वां
पश्यामि नाथ नृहरे तव सुप्रभातम् ॥ १८॥
रामानुजार्यहृदयातुलमोददायिन्
श्रीवैष्णवारिनृपचोलनिषूदनेन ।
श्रीभाष्यकारकृतमङ्गलसन्नुताद्य
श्रीयादवाद्रिनृहरे तव सुप्रभातम् ॥ १९॥
शान्तिर्मुखे नयनयोरपि सन्निधत्ते
पाणिद्वयं पदयुगं परिदर्शयत्ते ।
भक्तालिसंश्रयणयोग्यमितीव शंसत्
भाति प्रभो नरमृगेन्द्र तव प्रभातम् ॥ २०॥
हत्वारिमप्यपरिहार्यरुषा तदीय-
रक्तं पिबंश्च सिरयाभवमावृतोराः ।
इत्यात्मशान्तिमधिगन्तुमिवासि योगे
श्रीयादवाचलतटे नृहरे प्रभातम् ॥ २१॥
लोके प्रतिक्षणमपि प्रतिपत्तुकामाः
भोगान्नरा दुरितसन्ततिमाचरन्ति ।
उत्तिष्ठ वत्सलतया तदिह क्षमस्व
श्रीयादवाद्रिनृहरे तव सुप्रभातम् ॥ २२॥
पूर्वं रुषा परुषरूपमियं समेत्य
मां शान्तचित्तमतनोत्सकलेक्षणार्हम् ।
एवं विचिन्त्य किमु वक्षसि पङ्कजाक्षीं
धत्से श्रियं यदुगिरीश तव प्रभातम् ॥ २३॥
दानव्रताध्वरतपःप्रभृतेः फलं यत्
त्वन्नामसंस्मरणमात्रत एव भक्त्या ।
आप्नोति तद्दुरितनाशमवाप्य मर्त्यः
श्रीमन्नृसिंह भवती भवतु प्रभातम् ॥ २४॥
रक्षार्थमेव नृहरे त्वयि जाग्रतीह
पापात्मकोऽपि धुतभीतिरहं प्रहृष्टः ।
नैर्भर्यलब्धलघुहृच्छरणं गतोऽस्मि
त्वत्पादपद्मयुगलं तव सुप्रभातम् ॥ २५॥
लोके स्वभावमपहाय न किञ्चिदस्ति
सङ्कल्प एवं तव तादृश इत्यवैमि ।
संस्कारमग्नमतिरस्म्यत एव नाथ
त्रायस्व पापिनममुं नृहरे प्रभातम् ॥ २६॥
त्वत्पादपद्मयुखले सुदृढा नृसिंह
भक्तिर्न मे हृदि न च व्रतदाननिष्ठः ।
कैङ्कर्यबुद्धिरपि जातु न मे प्ररूढा
त्रायस्व मां करुणया तव सुप्रभातम् ॥ २७॥
श्रीवैष्णवाग्र्यकुललब्धजनिस्तु सोऽयं
रामानुजार्यचरणाश्रयणैकभाग्यः ।
इत्यादरेण सुविचिन्त्य मयि प्रसीद
श्रीमन्नृसिंह तव सम्प्रति सुप्रभातम् ॥ २८॥
पूर्वानुवृत्तगुरुसन्ततिमङ्गलोक्ति-
संस्तूयमान यदुशैलपते नृसिंह ।
तन्वन्स्वयं भुवनमङ्गलमादिमूर्ते
विश्वात्मको विलससीह तव प्रभातम् ॥ २९॥
वेदान्तवेद्य निरवद्यगुणाम्बुराशे
लक्ष्मीविलासनिलयायितरम्यवक्षः ।
पीताम्बरोरुरुचिपिङ्गलकेसरौघ
श्रीयादवाचलपते नृहरे प्रभातम् ॥ ३०॥
कल्याणरूपमशरण्यशरण्यमीड्यं
कारुण्यमात्रकृतसर्वजगत्प्रसूतिम् ।
ब्रह्मेन्दुशेखरसुरेशसमर्चिताङ्घ्रिं
त्वां द्रष्टुमस्मि ननु दर्शय ते प्रभातम् ॥ ३१॥
आराधनाय तव नाथ सुवर्णपूर्ण-
कुम्भप्रसूनतुलसीदलधूपदीपाः ।
सज्जा द्विजांश्च निगमस्वरमञ्जुकण्ठा-
स्तिष्ठन्ति जागृहि हरे तव सुप्रभातम् ॥ ३२॥
मङ्गलाशासनम्
क्षपिताश्रितदुःखाय रक्षादक्षाय साक्षिणे ।
ॐकाररूपिणे तस्मै नरसिंहाय मङ्गलम् ॥ १॥
उद्गिरत्यखिलान्लोकान्संवर्ते ग्रसते च यः ।
उग्राय नरसिंहाय तस्मै स्यान्नित्यमङ्गलम् ॥ २॥
सर्वैरवध्यं दैत्येशं तीक्ष्णाग्रैर्नखरैस्तु यः ।
विदार्याऽहन्नुरोदेशे तस्मै वीराय मङ्गलम् ॥ ३॥
पद्भ्यामाक्रम्य पातालं शिरसा त्रिदिवं तथा ।
अष्टदिग्बाहुदण्डो यस्तस्मै भद्रञ्च विष्णवे ॥ ४॥
तेजसा यस्य चन्द्रार्कनक्षत्रग्रहवह्नयः ।
ज्वलन्ति तस्मै ज्वलते नरसिंहाय मङ्गलम् ॥ ५॥
विनेन्द्रियाणि सर्वत्र सर्वं जानाति सर्वदा ।
यस्सर्वतोमुखाय स्यात्तस्मै भद्रं रमाजुषे ॥ ६॥
सटातटिज्ज्वलज्जिह्वस्तीक्ष्णदंष्ट्रात्विहुज्वलः ।
यो भाति नरसिंहाय तस्मै स्यान्नित्यमङ्गलम् ॥ ७॥
यन्नामस्मरणाद्भीता भूतवेतालराक्षसाः ।
रोगा नश्यन्ति तस्मै स्याद्भीषणाय च मङ्गलम् ॥ ८॥
यं समाश्रित्य सर्वोऽपि सकलं भद्रमश्नुते ।
श्रिया जुष्टाय तस्मै स्याद्भद्राय च सुमङ्गलम् ॥ ९॥
साक्षाद्विपक्षं मृत्युञ्च भक्तानां यो विनाशयेत् ।
मृत्योश्च मृत्यवे तस्मै नरसिंहाय मङ्गलम् ॥ १०॥
यस्मै कृत्वा नमस्कारं विधायात्मनिवेदनम् ।
त्यक्तदुःखो नरः कामानश्नुते तं नमाम्यहम् ॥ ११॥
दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥ १२॥
आधिव्याधिमहाभीतिमहादुःखनिवारक ।
अपारकरुणासिन्धो दिव्यसिंह नमोऽस्तु ते ॥ १३॥
पूर्वाचार्यकृतैर्भक्त्या मङ्गलाशासनैश्चिरात् ।
स्तूयमानाय तस्मै स्यान्नरसिंहाय मङ्गलम् ॥ १४॥
फलश्रुतिः -
सुप्रभातमिदं भक्त्या प्रातरुत्थाय यः पठेत् ।
आयुरारोग्यमैश्वर्यं सोश्नुते हर्यनुग्रहात् ॥ १५॥
इति श्रीजग्गूवकुलभूषणकवि विरचितं
यादवाद्रियोगारूढनरसिंहसुप्रभातं सम्पूर्णम् ।
। शुभमस्तु ।
श्रीयोगारूढनरसिंहाय परब्रह्मणे नमः ।
Proofread by Venkata Surya Jagannadha Rao Garimella, NA