यदुनाथसुप्रभातम्
यामिन्यपैति यदुनाथ विमुञ्च निद्रा-
मुन्मेषमृच्छति तवोन्मिषितेन विश्वम् ।
जातः स्त्रयं खलु जगद्धितमेव कर्तुं
धर्मप्रवर्तनधिया धरणीतले त्वम् ॥ १॥
अश्रान्तसन्ततिभिराभरणप्रकाशै-
रारात्रिकं प्रमुखयन्त्य इवोपचारम् ।
इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां
पद्माननाः पदनिवेशितधन्यहस्ताः ॥ २॥
वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं
दौवारिकास्तव गृहीतसुजातवेत्राः ।
निर्गच्छतः प्रविशतश्च निशामयन्तो
नाथ त्वदेकहृदया न भजन्ति तन्द्रीम् ॥ ३॥
विश्वैकतीर्थभजनेन विशुद्धिमन्तो
निद्रोज्झिता निगमसीम्नि निशात्यये च ।
वैतानिकान् विधिवशेन विहृत्य वह्नीन्
पुण्याशयाः परिचरन्ति पुरोधसस्ते ॥ ४॥
निद्रावशेन निभृतेक्षणमुत्थितानां
चित्राणि मन्थरपदान्यपगत्वरीणाम् ।
काले गृहीतमुचिते रशनाः कथञ्चि-
न्मौनव्रतं जहति मुग्धवधूजनानाम् ॥ ५॥
सन्त्यज्यते तरलमौक्तिकजालदृश्यै-
स्तारागणैस्त्रिदशवर्त्म तमालनीलम् ।
पद्मापतेरमृतनिर्मथनावसाने
दुग्धाम्बुराशिपृषतैरिव रूपमग्र्यम् ॥ ६॥
नाथ स्फुरन्त्युपयति द्युमणिप्रकाशे
न ज्योतिरिङ्खणगणा न च तारकाद्याः ।
तेजस्विनोऽपि तमसैव समृद्धिमन्त-
स्त्वत्सन्निधौ मुषितभास इव त्वदन्ये ॥ ७॥
आनर्तितान् सललितं दिवसावसाने
वाचालरत्नवलयैर्निजहस्ततालैः ।
निद्रालसान् मृगदृशो गृहनीलकण्ठा-
नावासयष्टिशिखरादवरोहयन्ति ॥ ८॥
नृत्यन्त्युदीरितघनक्रमसामकाण्डे
नेदीयसीं तव निशम्य विभातनान्दीम् ।
चित्रातपत्रपरिमण्डलचारुबर्हाः
शृङ्गारयोनिशरपत्ररुचो मयूराः ॥ ९॥
निर्गत्य चित्रगरुतो निलयान्तरेभ्यः
तारस्वनास्तरुणविद्रुमताम्रचूडाः ।
रत्नाङ्गणेषु रमणीभिरवेक्ष्यमाणाः
क्रीडारणं विदधते कृकवाकुवर्याः ॥ १०॥
प्राप्तस्तुलां हरितकोमलबाह्यपत्रैः
किञ्चित्परिस्फुरितशोणमुखैः सरोजैः ।
वामभ्रुवां वलयपङ्क्तिषु सञ्चरन्त्यो
मञ्जु क्वणन्ति मणिपञ्जरशारिकास्ते ॥ ११॥
प्रत्यक्षिते तमसि यास्यति विप्रकर्षं
सम्भिन्नभानुमति सम्प्रति जीवलोके ।
गङ्गायमानसलिलं निजरश्मियोगात्
सिष्णासयेव सितभानुरुपैति सिन्धुम् ॥ १२॥
प्रत्यूषधर्मसमयेन समग्रधाम्ना
शोषं व्रजत्यमृतरश्मिमयूखपूरे ।
अह्नाय कैश्चिदभिघातमवाप्नुवन्त्य-
स्ताराः प्रयान्ति विलयं तनुबुद्बुदाभाः ॥ १३॥
पत्युस्त्विषां प्रजहतः प्रथमान्धितल्पं
सन्ध्यासरोरुहदृशः प्रथमोत्थितायाः ।
सीमन्तिते तिमिरकुन्तलमध्यभागे
सिन्दूरराजिरिव भाति मयूखरेखा ॥ १४॥
ज्योत्स्नापदेशमवधूय सितोत्तरीयं
स्तोकावशेषितसदाभरणप्रबन्धा ।
अङ्गीकरोत्यरुणभावितमङ्गरागं
प्राचीदिशा दिनपतिं परिभोक्तुकामा ॥ १५॥
निर्णिज्य सम्प्रति निशाङ्गनिवेशलग्नं
कालेयपङ्कमिव सन्तमसं कलङ्कम् ।
क्षोणीभृतामरुणदीधितयोऽनुरक्ताः
पादानलक्तकरसैरिव रञ्जयन्ति ॥ १६॥
प्रादुर्भविष्यति चराचरजन्तुवर्गे
प्राप्तारुणेन विधुना तमसा च वेला ।
आभाति भावितपरस्परदेशयोगा-
न्मायाविभक्तिरिव लोहितशुक्लकृष्णा ॥ १७॥
उन्निद्रपद्मनयनः सुभगोत्पलाभः
सम्भावितो मुनिगणैरुपपन्नबोधैः ।
रागोत्तरां श्रियमवाप्य रथाङ्गशोभी
जातः स एष समयो जगदेकसेव्यः ॥ १८॥
नीतः श्रमं निहतरात्रिवरूथिनीक-
श्चन्द्रातपत्रविनिपातविलुप्तभूमा ।
प्रत्यूषवैरिविभवेन पराहतात्मा
कालप्रतीक्ष इव गच्छति कामवीरः ॥ १९॥
योऽसौ जनस्य दिशतीव सुधानिधानं
जातध्वनिः श्रुतिषु जागरदुन्दुभिस्ते ।
मन्ये स एव मदनस्य निशाचरस्य
स्वच्छन्दसौप्तिकनिवृत्तिमभिव्यनक्ति ॥ २०॥
अन्तर्बहिश्च तमसा परिमुच्यमाने
जागर्यया जगति सम्प्रति दीप्यमाने ।
पञ्चायुधश्चिरमपि क्रमशान्तिमिच्छन्
निद्रामुपैति हृदयेषु नितम्बिनीनाम् ॥ २१॥
अग्रेभवन् गुरुरिव स्वयमानकाना-
मादिष्टसंसदिव कन्थरया तवैषः ।
व्यक्तप्लुतेन निनदेन विशुद्धवर्णः
प्रस्तौति नाथ निगमान् प्रतिबोधनार्हः ॥ २२॥
मुग्धाः स्त्रमुष्टिपरिमेयमनोज्ञमध्याः
पर्यायचापलतिका इव पञ्चबाणः ।
प्रास्थानिकप्रणयदुर्विनयोपशान्त्यै
प्रत्यक्षयन् प्रतिनिवर्तयतीव यूनः ॥ २३॥
अन्तश्चकासदसितोत्पलमङ्गयोगाद्
भासोन्मदेव परिमीलिततारकार्था ।
निष्पीतकान्तिमकरन्दरसं प्रतीच्यां
नीहारमानुचषकं निदधाति सन्ध्या ॥ २४॥
दृष्ट्वा निमीलितवतीं नियतिप्रभावा-
दात्मप्रियां कुमुदिनीमवधूतधमा ।
च्योतत्तुषारनयनोदकबिन्दुरिन्दुः
प्रस्थानमिच्छति महत्प्रतिपन्नदैन्यः ॥ २५॥
भोक्तुं दिवं निजवियोगविलुप्तदीप्तिं
प्रागेव तीव्ररुचिना प्रहितेव सन्ध्या ।
मालिन्ययोगमपनीय करावमर्शैः
प्रायो यथार्हमनुलिम्पति कुङ्कुमेन ॥ २६॥
अर्थेन पाटलमनूरुकरानुषङ्गा-
दर्थान्तरेण मणिमेचकमन्तरिक्षम् ।
अस्पृष्टतापमधिरोहति निस्तमस्कं
संवीतपीतवसनेन तुलां त्वयैव ॥ २७॥
पद्मापदाम्बुरुहयावकपिङ्गधाम्ना
भासा नितान्तमुदयान्तरितस्य भानोः ।
आरज्यते गगनमद्य जगत्प्रसूते-
र्नाभीसरोरुहभुवा रजसेव गात्रम् ॥ २८॥
दग्धुं तमो दनुजवृन्दमिवाम्बुराशे-
रुत्तस्थुषो मधुरिपोरिव तिग्मधाम्नः ।
उन्मेषिणी सुमनसामुदिता पुरस्ता-
च्चक्रप्रभामनुकरोति मरीचिमाली ॥ २९॥
दृष्टिद्वयं नियतकालमिदं प्रजाना-
मेका निमीलति तथोरितराप्यलक्ष्म्या ।
तत्तादृशोस्तव दृशोर्युगपत्प्रबोधा-
दालोकयोगमनघं भजतां त्रिलोकी ॥ ३०॥
प्राचीनशैलविषये प्रचुरांशुरेखां
सन्ध्यादशामरुणरागघृतावसिक्ताम् ।
कालो निधाय सृजतीव शनैस्तदन्ते
तिग्मद्युतिं त्रिभुवनैकमहाप्रदीपम् ॥ ३१॥
पर्याप्तरश्मिनिकरेण सुवृत्तभूम्ना
सूर्येन्दुबिम्बयुगलेन समस्थितेन ।
आभाति कालवणिजा परिकल्प्यमाना
नक्तन्दिवक्षणतुलेच नमःस्थलश्रीः ॥ ३२॥
नैशं तमः क्षिपति नन्दितचक्रवाके
पद्मानि बोधयति भावितमित्रभावे ।
दृष्टिं प्रसाधयति दर्शितसत्पथेऽस्मिन्
दोषोल्बणा कुमुदिनी बहुमानशून्या ॥ ३३॥
पादस्पृशां दिशति भूमिभृतां प्रकाशं
सत्त्वं समेधयति सद्भिरुदीरितार्घ्यः ।
तेजोगणानपि तिरस्कुरुते स्वदीप्त्या
चक्रप्रियस्त्वमिव सम्प्रति चण्डभानुः ॥ ३४॥
आजानपाण्डरतनुः परभागमृच्छन्
नीलाम्बरद्युतिमुषा निजलाञ्छनेन ।
स्फीताकृतिः परिगतो मदरागलक्ष्म्या
वीर त्वदग्रज इवैष विभाति चन्द्रः ॥ ३५॥
सन्ध्योपरागसमयं प्रतिलभ्य पुण्यं
स्नातुं निशा गगनसौधतलावतीर्णा ।
आरक्तरूपमवलम्बयता कराग्रं
पत्या सह प्रविशतीव परं समुद्रम् ॥ ३६॥
देव त्वयीव दिवसागमजागरूके
संरक्तविश्वमुदयं सवितर्युपेते ।
अस्तं शनैरभिपतन् भजते मृगाङ्क-
स्त्वद्वैरिवारवनितावदनेन्द्ववस्थाम् ॥ ३७॥
राजास्तमेति सुहृदा मदनेन सार्धं
दीनाकृतिः कुमुदिनी दृढबद्धकोशा ।
वैरी समेति विषमाश्व इतीव भीता
छायाच्छलेन भजते गगनं त्रियामा ॥ ३८॥
आमृश्य रात्रिमरुणोदयजातपुष्पां
प्राप्तानुताप इव सत्पथलङ्घनेन ।
ज्योत्स्नांशुकं द्विजपतिः परिधाय नूनं
व्रीडानतो विशति वारिनिधिं विवर्णः ॥ ३९॥
अभ्येति भानुरुदयाद्रिमसह्यतेजाः
स्थातुं स एष समयो न ममेति पश्यन् ।
प्रायः समाश्रयति पाशभृताभिगुप्तं
तारापतिश्चरमसागरतोयदुर्गम् ॥ ४०॥
मूले मनाग् भवति मुञ्चति पूर्वभागं
शैथिल्यमृच्छति तमालरुचिस्त्रियामा ।
आकृष्यते चरमशैलवने विहर्तुं
सीरायुधेन यमुनेव सुधांशुनेयम् ॥ ४१॥
प्रस्थानकालभजनात् परितोषितेन
ज्योत्स्नात्मिकां हरिवधूसहजेन दत्ताम् ।
प्रायेण नाकवनितानखदीप्तिलक्ष्यां
शेषापटीं चमरभूभृदसौ दधार ॥ ४२॥
सूक्ष्माभिरामनिजदीधितिसूत्रलम्बी
पर्यन्तलग्नतिमिरुलकदर्शनीयः ।
सिन्दूररञ्जित इवैष विभाति लक्ष्म्याः
सीमन्तमौक्तिकमणिः प्रतिभाति चन्द्रः ॥ ४३॥
प्रालेयरूषितमिदं प्रथमेतराब्धौ
मग्नैकदेशमनुयाति मृगाङ्कबिम्बम् ।
मानच्छिदां मकरकेतनसायकानां
शाणोपलं चिरनिघर्षणकर्शितार्थम् ॥ ४४॥
आदौ वराभमुदितं शरपाण्डुमध्ये
पश्चान्मधूकपरिधूसरमिन्दुबिम्बम् ।
सम्पद्यते पुनरदृष्टतमामवस्थां
कालार्पितं करजचिह्नमिव क्षपायाः ॥ ४५॥
नैशं तमिस्रमरुणेन विलुप्तसारं
निःशेषयन्नयमुदेति मयूखमाली ।
मत्सेवनेन पुरतो मुषितैकदेशं
विद्यावतां व्रजिनरशिमिवान्तरात्मा ॥ ४६॥
उद्गच्छता पुरुषकेसरिणेव पूष्णा
काले तमो विदलितं करजैः प्रवालैः ।
गाढं हिरण्यकशिपोरिव गात्रमन्यत्
सन्ध्याच्छलेन रुधिरं क्षरतीव सान्द्रम् ॥ ४७॥
प्राप्तोदयस्य तपनस्य तवेव धाम्ना
क्षिप्तो गुहान्तरनिरुद्ध इवान्धकारः ।
विश्वावलोकननिरोधवियातवृत्ते-
रत्याहितस्य परिपाकमिवैष भुङ्क्ते ॥ ४८॥
मग्ना चिरं महति सन्तमसाम्बुराशौ
दंष्ट्राभिरामरुचिना दिवसागमेन ।
उत्क्षिप्यते दनुजशोणितलोहितेन
प्रायो वराहवपुषा विभुनेव भूमिः ॥ ४९॥
निद्रामपास्य तमसा च दृशो निरोधं
प्रत्यङ्मुखं प्रथमतः प्रथयन् प्रकाशम् ।
निःश्रेयसप्रतिपदेन निजेन धाम्ना
विश्वं समाधिरिव दर्शयते विवस्वान् ॥ ५०॥
आशापरीतमविवेकमिवान्धकारं
शङ्काशतास्पदमलक्षितसर्वतत्त्वम् ।
निर्धूय सम्प्रति निशामिव बाह्यविद्यां
तत्त्वावसाय इव भाति विभातकालः ॥ ५१॥
निर्विश्य चन्द्रसितपद्मरसं निशात्मा
लोलम्बजातिरभितो लुलितान्यपुष्पा ।
त्वद्वक्त्रचन्द्रनिरपायरसानिदानीं
पद्मानुपैति परितोषितराजहंसान् ॥ ५२॥
नात्यन्ततः कुमुदिनी प्रतिपन्ननिद्रा
नातीव बोधमुपयाति सरोजिनी च ।
एतेन नूनमनयोरविशेषदृश्वा
नाथानुवृत्तिनियतेव भवत्यवस्था ॥ ५३॥
पर्यस्यता सुरभिपद्मपरागजालं
पक्षानिलेन परिधूननसम्भवेन ।
सन्धुक्षयन्ति मकरध्वजहव्यवाहं
शान्तं पुनः पुनरमी सरसीषु हंसाः ॥ ५४॥
कालोत्थिताः स्थितिभृतो गुणयन्त्रितत्वाद्
दानोदकार्द्रकरपुष्करदर्शनीयाः ।
सम्भावयन्त्यभिमुखाः समयोपयातान्
भृङ्गान् वनीपकजनानिव वारणेन्द्राः ॥ ५५॥
गञ्जामुपेत्य मदकुञ्जरगण्डपालीं
मत्तान् समीक्ष्य मधुपान् परिघूर्णमानान् ।
शुद्धानि हन्त कुमुदानि तमस्यपेते
भूयस्तदन्वयभयादिव सङ्कुचन्ति ॥ ५६॥
सत्त्वक्षमाधिकतया शयिताः पृथिव्यां
निद्रामयीं व्यपगमय्य निजामविद्याम् ।
निःसङ्गवृत्तिनियताः स्थिरसंयमार्हा
मुञ्चन्ति सम्प्रति मदं मुदिता गजेन्द्राः ॥ ५७॥
शैब्यादयस्तव हयाः समयप्रबुद्धा-
चत्वार एव निगमा इव मूर्तिमन्तः ।
आवर्तयन्त्यतनुहेषितवीचिभेदै-
र्वैरात्रिकं वटुभिरध्ययनं प्रवृत्तम् ॥ ५८॥
आयोधने विहरणे व्यवधानवन्तः
प्राज्यैः परिच्छद परिष्करणोपचारैः ।
संयोजयन्ति रथयोगविदः शताङ्गं
तार्क्ष्यं द्वितीयमिव सारथयस्त्वदीयाः ॥ ५९॥
निद्राविशेषविगमेऽपि मद्रानुषङ्गा-
न्मन्दं दृशो मुकुलयन्ति मदावलेन्द्राः ।
एषामनूरुकिरणैररुणीकृतानां
सप्तस्रुतां भवति सान्ध्यपयोदलक्ष्मीः ॥ ६०॥
आलक्ष्यदूरमवरोधगृहादमुष्मात्
स्वाभाविकं वदनमारुतसौरमं ते ।
अम्भोरुहाङ्कणमपत्रपयन् समीरो
मन्दं परिभ्रमति मन्दिरदीर्घिकासु ॥ ६१॥
आघूर्णितानि मृदुना पवनेन पद्मा-
न्यादेशयन्ति मदलेशमयीमवस्थाम् ।
निर्गच्छतां तव च वारवधूजनानां
निद्रावशेषकलुषाणि विलोचनानि ॥ ६२॥
रेणूत्कराः सरसिजोत्पलकैरवाणां
कुर्वन्त्यनूरुतिमिरेन्दुरुचिप्रकाशाः ।
प्रायः समुद्रतरुणीपरिकर्मभूतां
चर्चां नवीनघुसृणागरुचन्द्रनानाम् ॥ ६३॥
अध्यासितं कुमुदतल्पमपोह्य काले
पद्मोत्पलानि शनकैः श्रियमाव्रजन्तीम् ।
सञ्जीवयन्त्यलघुचामरदर्शनीयैः
पक्षैः स्वयं परिजना इव राजहंसाः ॥ ६४॥
प्रत्यूषलक्षणरसायनसम्प्रयोगात्
?प्रालेयरश्मिमहसाजरसेव मुक्तः ।
पद्मोत्पलप्रभृतिभिः परिकर्मवत्यो
गृह्णन्ति यौवनदशां गृहदीर्घिकास्ते ॥ ६५॥
औद्यानिकीषु सुमनःस्वनवाप्तपूर्व
नूनं सरोरुहवनेषु च नूतनेषु ।
आदित्सते वदनमारुतसौरभं ते
शय्यानिकायमभितो विहरन् समीरः ॥ ६६॥
अर्च्यस्य सम्प्रति सतामवगाढतीर्था
मन्ये प्रगृह्य नलिनी मकरन्दमर्घ्यम् ।
व्यक्तद्विरेफनिनदा विहिताभिमुख्या
पत्युस्त्विषां प्रणयतीव करप्रसारम् ॥ ६७॥
ज्योत्स्नासखीं कुमुदिनीं भ्रमरः प्रहृष्यन्
निर्विश्य नित्यपरिशुद्धरुचिं निशायाम् ।
रागादुपैति नलिनीं रजसाभिजुष्टां
किं नाम नाचरति मन्मथहस्तवर्ती ॥ ६८॥
सन्ध्याच्छलेन पुरुषोत्तम सम्प्रतं ते
सैवाधुना भृगुसुता तमसां निहन्त्री ।
भूयः समुत्थितवती घृतपुण्डरीका
भोगाय सागरगृहाद् भुवनैकयूनः ॥ ६९॥
चन्द्रातपत्रिदिवशैवलिनीप्रवाहे
मग्नोत्थितां कमलिनीमुपसेवमानाः ।
प्रत्यग्रभिन्नमुकुलप्रसृतैः परागै-
रुत्थापयन्त्यगरुधूपमिवोत्पलिन्या ॥ ७०॥
पौरन्दरीं दिशमनूरुनिबद्धरागां
दृष्ट्वा तथा परिणमत्यपरा दिशापि ।
स्त्रीणां गतानुगतिकप्रतिमत्तिभाजां
ख्यातं ततो भवति कामितकामिनीत्वम् ॥ ७१॥
निद्रायते कुमुदिनी चिरसम्प्रबुद्धा
सुप्ता प्रबोधमुपयाति सरोजिनी च ।
यामेषु वृत्तिमनयोरधिगम्य नूनं
शिष्यायितं त्वदवरोधनितम्बिनीभिः ॥ ७२॥
मित्रस्य लुप्ततमसोऽप्यतिरागभाजः
सम्प्रोक्षणं मम न युक्तमितीव मत्वा ।
मीलत्यसौ कुमुदिनी सह तारकाभिः
प्राप्तं व्रतं तदिह राजपरिग्रहाणाम् ॥ ७३॥
आमोदयोगमवशात् सहसाश्रयन्ते
पत्युस्त्विषां तव च पादनिषेवणेन ।
क्षिप्तास्त्वया हृदि गृहीतशुचः क्षितीन्द्राः
स्वान्तर्निविष्टमधुपाश्च सरोजकोशाः ॥ ७४॥
आविःस्मितैरमरसिन्धुतरङ्गकल्पै-
राकेकरप्रियतमाजनदृष्टिभोग्यैः ।
त्वत्सौखशायनिकसूरिङ्गणेन सार्धं
निर्वेशयोगमुपयाम निरीक्षणैस्ते ॥ ७५॥
अधिगतनिलयानामौपवाह्यद्विपानां
मदपयसि वितत्वन् मज्जनोन्मज्जनानि ।
प्रवहति पवमानः स्पन्दयन् मन्दमन्दं
परिणमदरुणिम्नः पङ्कजारण्यकोशान् ॥ ७६॥
उपवनमधुपानामुन्मदैः स्वैरगीतै-
स्तनुमरुदुपदिष्टोश्चारुलस्यैर्लतानाम् ।
दरविलुषितदानैर्दन्तिनां कर्णतालैः
समयसमुचितं ते भाति सङ्गीतकृत्यम् ॥ ७७॥
हरति रतिविहारैरर्धविस्रंसितानां
युवजनहृदयानि श्रान्तपञ्चायुधानि ।
उपहितगुणमारादुत्थिताभिर्वधूभिः
कुटिलनियमिताग्रं गुम्फनं चूलिकानाम् ॥ ७८॥
क्षितिरियमवधूतध्वान्तनीलोत्तरीया
विकसितमुखपद्मा व्यक्तसन्ध्याङ्गरागा ।
अभिमतकरदानान्निर्यपेक्षा त्वदन्यै-
रनुभवितुमिव त्वां दर्शयन्त्यात्मरूपम् ॥ ७९॥
मधुन इव दयायाः सामरस्यं दधानैः
कमलवनमनन्यां कान्तिमध्यापयद्भिः ।
फणिपतिरमणीयं देवपर्यङ्कमुज्झन्
परिणमय शुभं नः पावनैरक्षिपातैः ॥ ८०॥
दिनमुख इति नाम श्रावितः सूतपुत्रै-
रभजत जितनिद्रो जागरं यादवेन्द्रः ।
सरिदुपगमकाले साधुसंरक्षणार्थी
मुनिभिरिव स एव स्तूयमानो मुकुन्दः ॥ ८१॥
धनमिव निगमानां धर्ममुत्तम्भयिष्यन्
त्रिजगदनुविधेयं कर्म निष्पाद्य सान्ध्यम् ।
सितगुणपरिधानैः सेवितो मन्त्रिमुख्यै-
रलमकुरुत नाथो हैममास्थानपीठम् ॥ ८२॥
इति श्रीयदुनाथसुप्रभातं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (६९)
Proofread by Rajesh Thyagarajan