श्रीयादवाष्टकम्
माधवानन्त केशवाच्युत वासुदेव जगत्पते (माधवानन्त व्ययाच्युत))
मीन कच्छप नारसिंह श्रीवीरराघव पाहि माम् ।
निर्जरार्चित मौनिसन्नुत नीरजाक्ष दयानिधे
देवनायक देहि मे तव पादभक्तिमचञ्चलाम् ॥ १॥
श्रीकरं करुणाकरं मुनिमानसाम्बुजवासिनं
पाकशासनसेवितं फणिराजतल्पसुशायिनम् ।
शोकमोहविनाशकं सुगुणाकरं शुभदायकं
लोकजीवनहेतुकं प्रणमामि यादवकुञ्जरम् ॥ २॥
कृष्ण श्रीधर वासवानुज पद्मनाभ नमोऽस्तु ते (कृष्ण माधव)
किङ्किणीघननाददिव्यसुपादपद्म नमोऽस्तु ते ।
वृष्णिवंशप्रदीप नायक वेदवेद्य नमोऽस्तु ते (सुदीप)
विप्रसंस्तुत मेघवर्ण सुपर्णवाह नमोऽस्तु ते ॥ ३॥
देवकीतनुसम्भवं त्रिगुणात्मकं जगदीश्वरं
दिव्यकौस्तुभशोभितं शुभशङ्खचक्रगदाधरम् ।
भावुकं पशुपालनं परमात्मकं भयनाशकं
दिव्यभागवतस्तुतं प्रणमामि यादवकुञ्जरम् ॥ ४॥
नन्दगोपकुमारकं नवरत्नकुण्डलभूषितं
नन्दिताश्रितपोषकं रविकोटिकान्तिसमप्रभम् ।
कुन्दकैतकल्लिकादिसुगन्धपुष्पसमर्चितं
इन्दुवंशविवर्धनं प्रणमामि यादवकुञ्जरम् ॥ ५॥
क्रूरकंसविमर्दनं मुचुकुन्दमोक्षणदायकं
चारुकेलिरसप्रियं शतकोटिमन्मथविग्रहम् ।
नीरजासनपूजितं नवनीतदिग्धकलेवरं
क्षीरसिन्धुनिवासिनं प्रणमामि यादवकुञ्जरम् ॥ ६॥
पूतनासुविभञ्जनं परिपूर्णचन्द्रनिभाननं
चूतपल्लवकोमलाधरमारुताञ्चितवांशिकम् ।
गीतनाट्यरसप्रियं सुरगीयमानयशोधरं
पीतवाससमव्ययं प्रणमामि यादवकुञ्जरम् ॥ ७॥
कोपमूर्छितकौरवादिविमर्दनं गुणसागरं
गोपिकाकुचकलचुकाहरणादरं कुलदैवतम् ।
चापवेदसुपारगं समशास्त्रधर्मविशारदं
क्लेशपापविमोचनं प्रणमामि यादवकुञ्जरम् ॥ ८॥
चन्द्रभानुविलोचनं मणिहारभूषणधारिणं
सुन्दरं नवरत्ननूपुरशोभिताङ्घ्रिसरोरुहम् ।
मन्दहासविराजितं वरबर्हि पिञ्छवतंसिनं
नन्दगोकुलवर्धनं प्रणमामि यादवकुञ्जरम् ॥ ९॥
मेरुशैलसमानधैर्यममेयरूपमजार्चितं
चारुमन्नवनीतचोरमखण्डरूपमनामयम् ।
पारिजातहरं परं बलभद्ररामसहोदरं
क्षुद्रकालियभञ्जनं प्रणमामि यादवकुञ्जरम् ॥ १०॥
शिष्टपालनतत्परं शिवदायकं जगदात्मकं
इष्टकामफलप्रदं भक्त (नत) वेङ्कटाचलवन्दितम् ।
दुष्टकर्मविनाशकं सर्वदोषरोगनिवारणं (भवदोषरोगनिवारणं)
अष्टभूतिप्रदायकं प्रणमामि यादवकुञ्जरम् ॥ ११॥
कृष्ण कृष्ण नमस्तेऽस्तु त्वयि भक्तिमचञ्चलाम् ।
इष्टकामार्थसिद्धिं च देहि मे मधुसूदन ॥ १२॥
यादवाष्टकमिदं पुण्यं यः पठेत् सततं नरः ।
सर्वसिद्धिं च सम्प्राप्य श्रीकृष्णपदमाप्नुयात् ॥ १३॥
इति श्रीयादवाष्टकं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan