श्रीव्यङ्कटेशस्तोत्रम्
%४३
यो लोकरक्षार्थमिहावतीर्य वैकुण्ठलोकात्सुरवर्यवर्यः ।
शेषाचले तिष्ठति योऽनवद्ये तं व्यङ्कटेशं शरणं प्रपद्ये ॥ १॥
पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः ।
हंसात्मनादिष्टनिजस्वभावस्तं व्यङ्कटेशं शरणं प्रपद्ये ॥ २॥
महाविभूतिः स्वयमेव यस्य पदारविन्दं भजते चिरस्य ।
तथापि योऽर्थं भुवि सञ्चिनोति तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ३॥
य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुङ्गम् ।
यत्पादमीक्षन्ति तरन्ति ते वै तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ४॥
प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद ।
दारिद्र्यदुःखादिभयं हरस्व तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ५॥
यदि प्रमादेन कृतोऽपराधः श्रीव्यङ्कटेशाच्छितलोकबाधः ।
स मामव त्वं प्रणमामि भूयस्तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ७॥
न मत्समो यद्यपि पातकीह न त्वत्समः कारुणिकोऽपि चेह ।
विज्ञापितं मे शृणु शेषशायिन् तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ८॥
व्यङ्कटेशाष्टकमिदं त्रिकालं यः पठेन्नरः ।
स सर्वपापनिर्मुक्तो व्यङ्कटेशप्रियो भवेत् ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीव्यङ्कटेशस्तोत्रं सम्पूर्णम् ।