विवेकानन्द-दर्शनम्
लेखकः - नन्दप्रदीप्तकुमारः
वेदान्तानन्दसन्दोहरामकृष्णमहात्मनः ।
नमोऽस्तु प्रियशिष्याय विवेकानन्दयोगिने ॥
श्रीमत्परिव्राजकाचार्यो विवेकानन्दो महान् दार्शनिको बभूव । १८६३ ईसवीये जानुआरी मासस्य द्वादश दिवसे सोमवासरे प्रातः ऊनपञ्चाशदधिके षट् वादने मकरसंक्रान्त्यां तिथौ कलिकता-नगर्य्यां विश्वनाथ दत्तस्य पितृभवने अयं महात्मा जन्म लेभे (१) । विश्वेशर- शिव-करुणया पुत्रोऽयं जातः इति मनसि कृत्वा जननी भुवनेश्वरी पुत्रं वीरेश्वरनामालंकृतं कृतवती (२) । अन्नप्राशनसमये शिशोर्नाम नरेन्द्रनाथ (३) संजातः । तत्पश्चात् सन्न्यासी विवेकानन्दः ।
एकदा सिमुलिआपल्ली निवासि-श्रीसुरेन्द्रनाथ-मित्र-महोदयस्य गृहे श्रीरामकृष्णेन (४) सह नरेन्द्रनाथस्य साक्षात्कारः समजनि । श्रीरामकृष्णस्य शिक्षापद्धतिरासीदनुपमाऽभिनवा च । स शिष्याणां भावधारां पालयन् तदीयजीवनपूर्णतामसाधयत् । कस्यापि भावमीषदपि नाशयितुं नाचेष्टत । नरेन्द्रमसौ सर्वोच्चमधिकारिणमवागच्छत् । तथापरेद्युः महदाकर्षणम् । श्रीरामकृष्णं गुरुरूपेण स्वीचकार सः । अद्वैतं ब्रह्मज्ञानमेव सर्वाभ्यर्हितं ज्ञानम् । साधनादिभिः वेदान्तसत्यं प्रत्यक्षीकृत्य कालान्तरे महाचार्यो बभूव । नास्माकं देशे अपितु नैकेषु देशेषु परिभ्रम्य स्वकीय-वत्कृतामाध्यमेन शिकागो (५) नगरे भारतीयसंस्कृतेः स्वाभिमानं बर्द्धयामास । स्वामिविवेकानन्दः न कस्यापि धर्मस्य निन्दां समालोचनां वा कृतवान् । कमपि धर्मं न हीनममन्यत् । सर्वदा तेनोक्तम्, स एव धर्मो यमनन्तं भगवद्विषयमुपदेक्ष्यति,स एव तादृशोऽनन्त एव भविष्यति । स एव धर्मसूर्यः कृष्णभक्तं प्रति, ख्रिस्तधर्मं प्रति, साधुम् असाधुं वा प्रति, सर्वान् प्रति समभावेन तुल्यं किरणजालं प्रसारयिष्यति । असौ धर्मः केवलो ब्राह्मण्यधर्मः बौद्धधर्मः ख्रिस्तधर्मः मुस्लिम धर्मो वा न भविष्यति किन्तु सर्वेषामेव धर्माणां समष्टिरूपो भविता । तस्मिन्नेव धर्मे उन्नतेरनन्तपथो मुक्त एव स्थास्यति । असौ सार्वभौमो धर्मः । सर्वस्मिन् धर्मे ईश्वरो विद्यते इति विवेकानन्दस्य महान् उपदेशः संकलितः । (६)
बद्ध-जीवानां कृते तस्य महती अभिप्सा आसीत् । सर्वे मुक्ता भवन्तु, सुखिनो भवन्तु, सर्वेषां मोक्षप्राप्तिर्भवतु इति चिन्तयन् अमेरिकायां वक्तृताप्रसंगे तेन विश्वशान्तये समष्टिब्रह्म उत्थापितम् । यच्चोक्तं- यत्खलु हिन्दु-जातीयानां वेदान्तवादीनां ब्रह्म, बौद्धानां बुद्धः, जैनानां जिनः, इस्लामिनां अल्ला,ख्रिस्त्रियानां यिशुः, यहुदीनां जिहोवा रूपेण परिगण्यन्ते परिपूज्यन्ते, अधुना स एव समन्वयेश्वरो भगवान् अस्माकं महदुद्देश्यं सफलयितुं शक्ति वो प्रददातु । (७) इति सर्वधर्मसमन्वय वाणी तत्रोपस्थितानां पाश्चात्यजनानां हृदयमान्दोलीकृता ।
उन्नतिसाधनं धर्मः, अवनतिसाधनमधर्म इति धर्मस्य संजा तेन निरूपिता । यः पशुं मनुष्यः मनुष्यं च देवतां निर्माति स एव धर्मः सार्वभौमः । पशुत्व-मनुष्यत्व-देवत्वगुणैः सम्मिलितो मानवदेहः । पशुत्वं विहाय मनुष्यत्वे,मनुष्यत्वं च विहाय देवत्वेऽवसानं धर्मः । तद्विपरीतमधर्मः । अत्र सर्वेषां मंगलविधानं धर्मः । द्वेषो पापः । ईश्वरे परमात्मनि अखण्डविश्वासो धर्मः,अन्यार्थेन सत्कार्ये स्वाधीनो धर्मः पराधीनं पापम् । आत्मोद्धार-परोपकारौ सार्वकालिकौ । अन्यथा अस्थि-मांसभारेण देहेन को लाभः? (८) अनन्तशान्तिमत्वं हि धर्मलक्षणम् । धर्मस्य गुप्ततथ्यं मतवादे नास्ति अभ्यासे वर्तते । मनुष्यं निकषा शान्तिरागमनं हि धर्मस्याभ्युदयः ।
मनुष्यः वृत्ताकारः, यस्य परिधिर्नास्ति । यः केन्द्रः स भगवान् । परमात्मा व्यापकः । शिवज्ञाने जीवसेवा भगवत्पूजा । यदि मानवानां सेवा न भवेत् तर्हि देवाराधनं वृथा । ये अहर्निशं दरीद्र-निर्बल-रुग्णानां सेवां स्वीकरोति वस्तुतः स शिवपूजकः । (९)
वेदान्तशास्त्रस्य परमाचार्यः स्वामि विवेकानन्दः ज्ञान-कर्मभक्तीनां समन्वय विग्रह आसीत् । पाश्चात्यदेशेषु वेदान्तप्रचारस्य अश्रुतपूर्वं साफल्यमवाप्य पूज्यपाद विवेकानन्दः आग्लशिष्यैः सह भारतं प्रत्यागतः । नर नारायण सेवा प्रसंगे तेन भणितम्- शिवस्य पूजा केवलं मन्दिरे विग्रहस्यार्च्चनं नहि प्रत्युत दीन दरिद्रेषु तथा आतुरेषु यः जीवरूपः शिवोऽस्ति तस्यैव पूजा अस्ति ।(१०)
विवेकानन्दनये धर्म एव भारतस्य मेरुदण्डः । राजनीतिः अन्यो वा न कोऽपि । यदि कदाचित् भारतीयानां कृते जडवादस्य आवश्यकता वर्तते तर्हि साहसिकताया आवश्यकता विद्यते । साहसावलम्बनं कर्तुं निर्देशं कुर्वन् आह विवेकानन्दः- जगति यदि किमपि पापमस्ति तद् दौर्बल्यमेव । सर्वविधां दुर्बलतां परित्यजत । दुर्बलतैव मृत्युः, दुर्बलतैव पापमस्ति । (११) इति ।
१८९७ ईसवीये विवेकानन्दः ``रामकृष्ण मिशन'' नाम्ना संघः संस्थापितः । अस्य कतिचन नियमाः समुल्लिखिताः । ते वक्षमाणाः निर्दिष्टाः ।
संघस्योद्देश्यं जनतायाः सेवा, तथा आत्मिकं कल्याण-साधनम् । राजनीत्या सह अस्य संघस्य न कोऽपि सम्बन्धो वर्त्तते ।
मनुष्यजातेः कल्याणाय वेदान्त सत्यस्य प्रचारं सर्वसाधारणस्य ऐहिक-पारलौकिक कल्याणस्य कृते तत्त्वानां कार्यरूपेण परिणमनमस्य परमो मन्त्रः । बहुजन हिताय बहुजन सुखाय ``रामकृष्ण मिशनः'' संचालित तेन सभापतिना विवेकानन्देन । (१२)
विवेकानन्द दर्शनमलौकिकम् । ``आत्मनो मोक्षार्थं'' ``जगद् हिताय च'' इति आदर्शयुगलं मनसि निधाय जीवमात्रे भगवतोऽभिव्यक्तिं स्वीकार्य जीवमात्रस्य सेवा करणेन भगवतो पूजा भवति इति आदर्शस्तस्य सर्वदा बलवत्तर आसीत् । नर नारायण सेवया हि आत्मानुभूतिर्जायते नान्यथा इति । (१३)
दानधर्ममहिमा विवेकानन्ददर्शने प्रतिफलिता । ``दानमेकं कलौ युगे'' इति महावाक्यमविस्मरन् तेन भणितम् - चित्तशुद्धेरुपायभूतं दानं सर्वादौ कर्तव्यम् । अनेन सेवाधर्मस्य प्रत्यक्षता प्रमाणीक्रियते । धर्मदान-विद्यादान-प्राणदानमन्नदानादीनां चतुर्विधानां मध्ये धर्मप्रार्थिने धर्मोपदेशदानं, विद्याविहीनाय विद्यादानं, रुग्णानां मुमूर्षूणां औषधदानं सेवया च तज्जीवनरक्षणं, क्षुधातुरेभ्य अन्नदानञ्च महादानेषु अन्तर्भुक्ता भवन्ति । इदं चतुर्विधं भगवत्सेवाबुद्ध्या करणीयमिति प्रतीयते । विवेकानन्द प्रवर्तिते अस्मिन् सेवाधर्मे वैयक्तिके पारिवारिके धार्मिके सामाजिके राष्ट्रिये तथा आन्तर्जातिके जीवने च सुदूरप्रसारी फलस्य विपुल सम्भावना विद्यते । जगति यानि धर्ममतानि तानि अखण्ड-सनातन-धर्मस्यांगीभूतानि इत्येवं मन्यमानानां सर्वधर्मावलम्बिनां मध्ये भ्रातृभावस्थापनाय गुरुपादेन परमहंसदेवेन यानि कार्याणि कृतानि तेषामवधारणं परिचालनं चास्य श्रीरामकृष्णसंघस्य महाव्रतम् । (१४)
साधारणजनेभ्यः जागतिक-पारमार्थिक-कल्याणविधायक-विज्ञान धर्मशिक्षादानं, शिक्षाकलाप्रभृतीनामुन्नतिसाधनं, वेदान्तो धर्मभावान्तराणि च यथा श्रीरामकृष्णजीवने संघटिनानि जनसमाजे तेषां प्रवर्तनमेकान्ततः काम्यमिति हेतोः कर्मिसंग्रहः तेभ्यः शिक्षादानं च संघस्य आदर्शत्वेन वर्णितः । (१५)
स्वामि विवेकानन्दः नैके मठाः प्रतिष्ठिताः । भारते वेलुरमठः (१६) सारदा मठश्च । पाश्चात्ये आलमोडातः पञ्चविंशति क्रोशदूरवर्तिनि मायावती नामके स्थाने तुषारमौलि हिमाचलस्य निर्जनाभ्यन्तरे अद्वैताश्रमनामको मठश्च संस्थापितः । अत्र प्राच्य-पाश्चात्यभक्ताः सम्मिलिताः सन्तः परस्पर भावविनिमय माध्यमेन उपकृताः सन्ति । अत्र सर्वधर्मावलम्बिनः सर्वमतानुसारिणश्च स्व स्व-धर्ममत-विश्वासानुसारेण अस्मिन् स्थाने एकत्रीभवितुं समर्था भवन्ति । अत्र काचन मूर्तिरपि नास्ति ।
विवेकानन्दः सर्वदर्शननिष्णातः सत्यद्रष्टा ऋषि आसीत् । तन्मतं तल्लिखितपत्रेपि सुस्पष्टम् । तथा हि- वयं मानवान् इदृशं स्थानं नेतुमिच्छामः, यत्र वेदा न सन्ति, बाइवेलं नास्ति, कोराणमपि नास्ति, तथापि आदर्श स्वरूपे तत्र स्थाने गन्तव्ये सति वेद-वाइबेल-कोराणानां समावेशो जायते । एषा शिक्षा मानवास्तु शिक्षणीया एव । यत्र नाना धर्माः एकमेवाद्वितीयस्य शाश्वताध्यात्मिक-सत्यस्य विभिन्नतां स्वीकुर्वन्ति । तत्र तस्यैव परम-सत्यस्य नाम एकता समन्वयता वेति गीयते । (१७)
विवेकानन्दः भक्तिपथं समर्थितवान् । सर्वेषां पूर्वाचार्याणां नारद-शाण्डिल्यादीनां (१८) मतानि तेन व्याख्यातानि । यदिवा ज्ञान-भक्ति-उपदेष्टृणां मध्ये पारस्परिक-सामान्यभेदः परिलक्ष्यते तथापि उभयोर्मध्ये सुप्तरूपेण भक्तिबीजमास्ते । (१९) ``तमेव भान्तमनुभाति सर्वं तस्य भाषा सर्वमिदं विभाति'' (२०) अत्र अनिर्वचनीयं प्रेम पराभक्तेः सहायकमिति निर्दिष्टम् । वैराग्यात् हि पराभक्तिरुदेति नान्यथा ।
वेदान्तस्य परमाचार्यः स्वामिविवेकानन्दः समन्वयवादी आसीत् । ईश्वरस्वरूपं तु ``जन्माद्यस्य यतः'' (२१) ``क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष'' एव (२२) ``स अनिर्वचनीय प्रेमस्वरूप'' (२३) इत्यादिभिः सर्वमतं समर्थितं महानुभावेन ।
स्वामिविवेकानन्दः प्राच्य-प्रतीच्ययोः सम्मिलन सेतु-स्वरूप आसीत् । स समस्ते संसारे साम्य-मैत्र्योः स्थापनस्य गुरुदायित्वं निजस्कन्धे गृहीतवान् । तस्यैयं शुभा प्रचेष्टा कियद्दूरं सफला भूता इति इतिहासः प्रमाणयिष्यति । १९०२ ख्रिस्ताब्दे जुलाइ मासस्य चतुर्थ दिनांके असौ महात्मा महासमाधिस्थो बभूव ।
सहायक ग्रन्थाः
१-युगाचार्यः विवेकानन्दः-स्वामि अपूर्वानन्दः
२-श्रीश्रीविवेकानन्द चरितम्-यतीन्द्र विमल चतुर्धरी
३-भक्तियोग स्वामी विवेकानन्द -रामकृष्ण मठ (ओडिआ)
४-विवेकानन्द विचारधारा- सौरीबन्धु कर (ओडिआ)
५-स्वामी विवेकानन्द- स्वामी जगन्नाथानन्द (ओडिआ)
६-स्वामी विवेकानन्द-सौरीबन्धु कर (ओडिआ)
७-स्वामी विवेकानन्द- प्रेमचान्द
८-स्वामी विवेकानन्दङ्क बाणी ओ रचना- स्वामी आत्मप्रभानन्द-रामकृष्ण मठ भुवनेश्वर (ओडिआ)
९-विवेकानन्द चरित-सत्येन्द्रनाथ मजूमदार (ओडिआ)
१०-Bibekananda, A Biography - by Swami Nikhilananda
पादटिप्पण्यः-
(१) He was born at 6;49 AM, a few minutes after sunrise, on
Monday January 12 1863, It was the day of the great Hindu
festival Makarsankranti.- Vivekananda A Biography page-1
(२) युगाचार्यः विवेकानन्दः, पृष्ठ-९
(३) तत्र-पृष्ठ-९
(४) Ramakrishna, the God man of modern times, was born on
February 18, 1836 in the little villege of Kamarpukur, in the
district of Hooghly in Bengal. Vivekananda A Biography page-9
(५) १८९३ ख्रिस्ताब्दे अमेरिकायां संजातः
(६) तत्र पृष्ठ-२०३
(७) तत्रैव पृष्ठ-२०३
(८) स्वामी विवेकानन्द-सौरीबन्धु कर-पपृष्ठ-१३७
(९) तत्र-पृष्ठ १३७
(१०) तत्रैव पृष्ठ-२३८
(११) तत्रैव पृष्ठ-२५०
(१२) विवेकानन्द चरित्र-२१४
(१३) तत्र २६६
(१४) तत्र-२६७
(१५) स्वामी विवेकानन्द - पृष्ठ ४०५
(१६) १८९८ ख्रिस्ताब्दे संस्थापितः
(१७) विविकानन्द विचार धारा, पृष्ठ-७०
(१८) सा परमप्रेमरूपा नारदभक्तिसूत्र १
(१९) स्वामी विवेकानन्द वा-८
(२०) कठोपनिषत्-२/२/१५
(२१) ब्रह्मसूत्र-१/१/२
(२२) पातञ्जली योगसुत्र-२/२५-२६
(२३) शाण्डिल्यभक्तिसूत्र
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com