विश्वरूपप्रकटनम्
सम्पूर्णाकारबोधस्तव खलु गमितो मोक्ष इत्यात्मविद्भिः
तत्पादं ते पदाब्जं मुरहरभुवनाकारमित्यागमोक्तम् ।
तस्मान्मोहोपशान्त्या तदुपरि भगवन् लब्धुमेवामृतत्वं
भूमन् पादाम्बुजातं तव मुनिततिभिर्मृग्यते युक्तमेतत् ॥ १॥
सर्वान् लोकान् स्वसङ्गाद्दुरितगुरुभरात्पावयन्त्याः प्रकामं
स्वर्धुन्यास्ते पदाब्जं किल भवति भवस्थानमाश्चर्यधाम ।
क्षन्तव्यप्रार्थनायां पदपतनमिव श्रेय अन्यन्न चास्ति
नत्यर्थश्चापि पूर्णः पदभजनविधेस्तत्पदाब्जं विशिष्टम् ॥ २॥
विज्ञानं जायमानं श्रुतिशिखरगिरां तत्त्वमस्यादिवाक्यात्
तद्वाक्यार्थप्रतीतिं प्रथमतरमपेक्षेत सा तत्पदार्थम् ।
पादं ते यत्समस्तत्रिभुवनमयमित्यूर्ध्वतश्चामृतत्वं
तत्त्वं रूपौ मुरारे तव पदकमलं त्वं पदार्थस्तदन्यत् ॥ ३॥
धीरः कश्चिन्मनीषी शिखरमुरुसमारोढुकामः पदाभ्यां
सोपानानां पदानि क्रममनु स पुमान् लङ्घयन्नेव याति ।
प्राथम्येन त्वदङ्घ्रिं भजत उरुपदं लभ्यते हि क्रमेण
तत्पादाब्जं प्रपन्नो विहरति भवतो धाम्नि हृद्येन वद्ये ॥ ४॥
सौधन्याधारभूमिः कथमिव तदवस्थापने हेतुभूत-
स्तद्वद्देव त्वदङ्घ्रिस्तव शुभवपुषो धारणे मूलभूतः ।
तद्भो! संसारभीतिप्रशमननिपुणं स्वर्गगङ्गामरन्दं
देव त्वत्पादपद्मं सुबहु विजयते सच्चिदानन्दसारम् ॥ ५॥
द्वैतं मिथ्येति तत्त्वं तदितरदनघं बह्वसत्यं ततस्त्वं
मातर्द्वैते विमुग्धा मम किल महितां नैव जानासि भूतिम् ।
सोऽहं वै वासुदेवस्तव सुतपदवीं प्राप्तवानप्यहो ते
मोहः कोवेति चेष्टा विलसितवचसा द्व्यङ्गुलोनो बभासे ॥ ६॥
शुद्धं धामाम्ब तत्त्वं तदितरमलिनस्वान्तमूढाभिगम्यं
नैवेतीव प्रजेशां कलुषितहृदयामीर्ष्यया बद्धुकामाम् ।
श्रान्तां नष्टोरुमोहां यदुपतिरनुशासन् बभौ द्व्यङ्गुलोनः
कारुण्यं नष्टमोहे किल लसति हरेस्सत्यनिष्ठे सुभद्रे ॥ ७॥
आत्मानात्माविवेकात्कलुषितधिषणं देव्यहं देवदेवे
मायापाशेन गाढं भवगहनपथे सन्निबद्ध्य क्षिपामि ।
तं मानन्तं कथं वा दधिमथनगुणेनाप्रमेयं निबद्धुं
मोहस्ते तत्त्वबोधाद्विलयमुपनयाम्येष गृह्णीष्व कामम् ॥ ८॥
तौ द्वेषौ नरस्य प्रथमतररिपू तत्कृता घोरदुःख-
पीडा संसारवार्धौ तदिह किल तयोर्नैव गच्छेद्वशत्वम् ।
ताभ्यां मुक्तो हि भक्तः प्रभवति पुरुधा सन्तमीशं हरिं मा-
मित्येवं द्व्यङ्गुलोनः स्वयमुपदिशतीवात्र नाट्यं चकार ॥ ९॥
यो वा दुःखं सुखं वा जयमपजयमप्यायमम्ब व्ययं वा
शीतं वोष्णं सखायं तदितरमपि वा सम्पदं वाऽऽपदं वा ।
ध्यायन् साम्येन नित्यं प्रशमितनिखिलद्वन्द्वधर्मो भवेद्वा
तद्वश्योऽहं भवेयं न तु विषममतेरित्यशं द्व्यङ्गुलोनम् ॥ १०॥
मृत्स्नामत्सीति मातुर्वचनमुपनिशम्यैव देवः प्रकामं
वक्त्रं व्यादाय लोकं सकलमपि विभुर्दर्शयामास मोदात् ।
कुक्षौ मे भूतजालं निखिलमपि वसत्येव किं तन्मृदा मे
भुक्तेनापीति देवः स्वकमहिमभरं नाट्यतस्सुव्यनक्ति ॥ ११॥
बालाः कामं ममेदं विलसितमधिकश्रद्धया पश्यतेति
मृत्स्नामादाय मोदात्सरभसमहहो भुक्तवान् गोपबालः ।
सर्वं लोकं युगान्ते सगिरिवननदीसागरार्केन्दुतारं
सामोदं खादतो मे कियदिदमिति तान् योऽजगाद्देवदेवः ॥ १२॥
प्रायो बालयथेव स्वविहृतिशरणाः पांसुपङ्कादिलीला-
मृद्भक्षास्तद्वदीशः कपटनरवपुर्मायया मोहयंस्तु ।
मृत्स्नां खादन् स्वमातुस्स्वकशिशुधिषणादूषितायाः प्रबोधं
कर्तुं वक्त्रे मुकुन्दस्सकलभुवनमप्याशु साक्षाच्चकार ॥ १३॥
जायन्ते सर्वभूतान्यपि निखिलगुरोर्मत्त एतानि जीव-
न्त्यन्ते मय्येव यान्ति प्रलय इति विदं स्वस्य नाट्येन कुर्वन् ।
मद्भक्ता मर्त्यभावं मम किल मनसा विस्मरन्तो भजध्वं
शङ्का चेत्स्याज्जनन्यै मम मुखकुहरे दर्शितं चिन्तयन्तु ॥ १४॥
ग्लानिर्धर्मस्य वृद्धिर्दुरितसमुदयस्यापि यर्ह्येव भूयात्
तर्ह्येवाहम्प्रकाशो दुरितततिमहं नाशयाम्येव शक्त्या ।
नाहं मर्त्यो महेशः किल मयि कलिलं मा कुरुध्वं जना इ-
त्यम्बाया विश्वरूपप्रकटनसरणिं बोधयामास देवः ॥ १५॥
इति विश्वरूपप्रकटनं सम्पूर्णम् ।
Encoded and proforead by PSA Easwaran psaweswaran at gmail.com