विज्ञप्तिश्लोकाः
यद्दैन्यं त्वत्कृपाहेतुर्न तदस्ति ममाण्वपि ।
तां कृपां कुरु राधेश यथा ते दैन्यमाप्नुयाम् ॥ १॥
सर्वेषां जीवितं लोके दृष्टं सर्वार्थसाधकम् ।
ग्लान्येकफलकं जातमधुना मम जीवितम् ॥ २॥
कर्तुं पुनरथाकर्तुमन्यथा कर्तुमीश्वरे ।
सामर्थ्यं यन्मया दृष्टं त्वय्येवातो न संशयः ॥ ३॥
तं न पश्यामि यस्याग्रे वार्तां स्वस्य मनोगताम् ।
उक्त्या तदुत्तरं लब्धा मनो विश्रामये क्षणम् ॥ ४॥
अतीव नीचा मत्प्राणा मूर्खा अपि गतत्रपाः ।
स्वस्थित्ययोग्यकालेऽपि यतस्तिष्ठन्ति साम्प्रतम् ॥ ५॥
शास्त्रं नियामकं तावद्यावत् पूर्णकृपा न ते ।
कृपया ते सुपूर्णस्य नैव कोऽपि नियामकः ॥ ६॥
सुभगा एवं जानन्ति प्रियसौभाग्यजं सुखम् ।
तद्धीनायास्तदीयेति प्रसिद्धिः शरणं सखि ॥ ७॥
प्रियसङ्गमराहित्याद्व्यर्थाः सर्वे मनोरथाः ।
निरपत्रपतासिद्ध्यै जीवामि सखि साम्प्रतम् ॥ ८॥
न लब्धस्तादृशः कोऽपि यस्याग्रे स्वमनोगताम् ।
वार्तामुक्त्वा स्वमात्मानं क्षणं विश्रामयाम्यहम् ॥ ९॥
श्रीमुखालोकने तस्य प्रियस्य च बहिर्गतौ ।
पक्ष्मापकारोपकारौ निर्णेतुं नैव शक्नुमः ॥ १०॥
अद्य श्वो वा परश्वो वा कदाचित्कृपयिष्यति ।
नाथ इत्याशया सर्वं गतं जन्म करोमि किम् ॥ ११॥
तथापि त्वत्कृपाकाङ्क्षां मनो मे निरपत्रकम् ।
कं वा हेतुं सुनिश्चित्य करोतीति न वेदम्यहम् ॥ १२॥
स्वभावतः सदा मेघः सर्वेषां जीवनप्रदः ।
जानेऽर्कस्यैव दौर्भाग्यं सोऽपि यत्तमुपेक्षते ॥ १३॥
त्वदीयत्वमपि ज्ञात्वा मयि कालादयः प्रभो ।
प्रभवन्ति ततो मन्ये त्वत्कृपाशून्यतां मयि ॥ १४॥
एतेषामहमेवास्मि सर्वस्वमिति सुन्दर ।
जानास्यस्माकमज्ञानेऽप्यतः कर्ता स्वतोऽखिलम् ॥ १५॥
विज्ञप्तौ वाऽपराधे वा पाखण्डे वा मदुक्तयः ।
पर्यवस्यन्ति कुत्रेति न जानेऽहं विमूढधीः ॥ १६॥
दुर्भगासि तथापि त्वं मा त्यज स्वप्रियान्तिकम् ।
कदाचित्कृपया पश्येत् प्रियस्त्वद्भाग्ययोगतः ॥ १७॥
विरहेणातितप्तां मां स्मरेच्चेत् प्राणवल्लभः ।
तथापि द्विगुणं दुःखं सोढुं नैवालि पारये ॥ १८॥
राज्यायोग्ये तदाकाङ्क्षा दण्डप्राप्त्यै यथा भवेत् ।
त्वत्सेवायामहं तादृक् तद्वदाप्ता दशामिमाम् ॥ १९॥
स्वीयं कृतागसं चेत्त्वं दूरस्थं कुरुषे यदि ।
इतः परोऽधिको दण्डस्त्वदीयस्य न विद्यते ॥ २०॥
वियोगो बाधते तावद्यावद्धृद्येव ते स्थितिः ।
यदा बहिस्तदा नेति विचित्रेयं स्थितिः सखे ॥ २१॥
भूर्जत्वगिव मे दोषा निःसरन्त्येव सर्वशः ।
तथाप्यनन्यगतिके त्वत्क्षमेति न मे भयम् ॥ २२॥
बलिष्ठा अपि मद्दोषास्त्वत्क्षमाग्रेऽतिदुर्बलाः ।
तस्या ईश्वरधर्मत्वाद्दोषाणां जीवधर्मतः ॥ २३॥
मत्प्राणानां स्वतो लज्जा नैवास्ति परतोऽपि च ।
स्थितिं प्राप्यापि नो यान्ति इहामुत्र च गर्हिताम् ॥ २४॥
त्वद्दर्शनविहीनस्य त्वदीयस्य तु जीवितम् ।
व्यर्थमेव यथा नाथ दुर्भगाया नवं वयः ॥ २५॥
गतः स कालो यत्रासीत्सुदुर्लभकृपा मयि ।
इदानीमीदृशः कालो यत्र त्वं गोचरोऽपि न ॥ २६॥
त्वदीयानां सुखं दुःखं न लोकसदृशं भवेत् ।
त्वत्सेवायां सुखं सर्वं नो चेत्तस्य विपर्ययः ॥ २७॥
मत्वा स्वकीयतां नाथ रोषेण कृपया तव ।
ताडनं लालनं वापि परमानन्ददं मम ॥ २८॥
त्वद्वियुक्तस्य जीवस्य त्वदीयस्यापि नित्यता ।
सङ्गं विना न चैवास्तु विज्ञापनमिदं मम ॥ २९॥
यादृग्भाग्यं पुरा मेऽभूत्तन्महत्त्वं न वेद्म्यहम् ।
येनासीत्त्वत्कृपा पूर्णा सुदुर्लभतरा मयि ॥ ३०॥
मा जीवतात्त्वदीयो यस्तव सेवाविवर्जितः ।
सत्या विज्ञप्तिरेषा मे नाथ त्वं मनुषे यदि ॥ ३१॥
स्वस्थित्ययोग्यं मत्वापि मच्छरीरं ममासवः ।
यन्न त्यजन्ति तेनाहं मन्ये तान्निरपत्रपान् ॥ ३२॥
त्वत्कृपातः पुरा नाथ मया कालादयः प्रभो ।
तुच्छीकृताः साम्प्रतं मां बाधन्ते त्वत्कृपां विना ॥ ३३॥
त्वत्सेवायामयोग्यस्य त्वदीयस्य मम प्रभो ।
इत्येव हि पराकाष्ठा अभाग्यस्येति मे मतिः ॥ ३४॥
तुच्छीकृतास्त्वत्कृपातः पूर्वं कालादयो मया ।
स्मृत्वा तद्वैरमधुना बाधन्ते त्वत्कृपां विना ॥ ३५॥
महानसकुरुक्षेत्रे कवलार्कग्रहे सति ।
सत्पात्रे स्वोदरे दत्ते तस्य वृद्धौ किमद्भुतम् ॥ ३६॥
कुरुक्षेत्रे दानवृद्धिः श्रूयते नानुभूयते ।
दानस्य मत्कुरुक्षेत्रे वृद्धिः सद्योऽनुभूयते ॥ ३७॥
इति श्रीमठपतिकल्याणभट्टविरचिताः श्रीविज्ञप्तिश्लोकाः सम्पूर्णाः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com