विठ्ठलस्तोत्रम् २
जीवनजीगोस्वामिकृतं
श्रीविठ्ठलं नतोऽस्मि श्रीवल्लभवल्लभं सुमार्तण्डम् ।
श्रीपुण्डरीकसुखदं रुक्मिण्या वल्लभं परमरुचिरम् ॥ १॥
श्रीविठ्ठलेत्यभिख्यां पूर्णां युक्तां विधातुमिह निकटे ।
कृत्वेमां वैदर्भीं कमलां कमलेक्षण स्थितोऽस्मि विभो ॥ २॥
पतितानुद्धृत्य त्वं सङ्ख्यातीतान्विदाविहीनतरान् ।
श्रान्तो भृशं ततः किल कटिदेशे धृतकरोऽसि करुणाब्धे ॥ ३॥
धृतमनुजाकृतिरस्म्यहमथापि लोकेऽस्ति कोऽपि मत्सदृशः ।
इति परिचिचीषया त्वं परिरम्भण उत्सुकोऽसि लोकानाम् ॥ ४॥
संसारोष्णकरोद्भवतापनिवृत्यै रसस्वरूप हरे ।
सान्द्रघनाभं धृत्वा विग्रहमन्यादृशं स्थितोऽसि किल ॥ ५॥
दरवरमथ ते करगं दृष्ट्वा संसारदरदरं दरताम् ।
अदरामभजन्नरवर शशधरकरभरमिवान्धकारभरः ॥ ६॥
स्वीयजनाभयदाने दक्षिणहस्तोऽस्ति युक्तसंज्ञो मे ।
इति तथ्यं सूचयितुं नालीकं सम्बिभर्षि तस्मिंस्त्वम् ॥ ७॥
त्वयि पुण्डरीकसुखदे गोगणसंवेष्टिते त्रयीनिलये ।
पापान्धनाशकत्वं युक्तं संज्ञासुखप्रदेऽक्षिचरे ॥ ८॥
दाक्षिण्यं स्वीकर्तुं देशेऽस्मिंस्त्वं स्थितोऽसि यदपि विभो ।
वामत्वं त्वय्याप्तं स्वीयव्रजमा त्यजत्यहो विमलम् ॥ ९॥
ध्यायं ध्यायं नित्यं शैलं गोवर्धनं प्रियं दासम् ।
तद्विप्रयोगयोगात् शैलसुरूपं भजस्यथो मौनम् ॥ १०॥
स्वर्गं वाणीं पृथ्वीं धेनुं करणानि पास्यजस्रमये ।
तत्सूचनाय विभुरपि गोपाकृतिकः स्थितोऽसि देशेऽस्मिन् ॥ ११॥
सेष्टकमयपादयुगं मम तस्मादिष्टसिद्धये भजत ।
सौख्याप्त्यै सूचयितुं पादयुगे सेष्टकोऽसि तत्सुखद ॥ १२॥
स्वचरणनलिनोद्भूतां तटिनीमुग्रोत्तमाङ्गसम्पर्कात् ।
दोषाकरनैकट्याद्भीमाभिख्यायुतामिमां मत्वा ॥ १३॥
युक्तार्था त्वं मा भव मद्भक्तेष्वथ भवाघसेनायाम् ।
इति शिक्षयितुं नित्यं तटदेशे वासतत्परोऽस्यस्याः ॥ १४॥
सुद्विजगणसेव्यस्त्वं सुमनोयुक्तः सुपर्णकः फलदः ।
समघननीलः कल्पद्रुमकल्पोऽनल्पपञ्चशाखोऽसि ॥ १५॥
सन्मानसवर्ती श्रीस्थानं त्वं सन्निलिम्पगणसेव्यः ।
हंसकरैः पूज्यः किल रक्तोऽन्तमोददः प्रसन्नश्च ॥ १६॥
प्रियपुण्डरीकभक्तासक्तेः प्राप्तस्तदीयसाजात्यम् ।
किं वा त्वत्सारूप्याल्लोके ख्यातः स पुण्डरीक इति ॥ १७॥
श्रितपुण्डरीकतटिनीतीरे लक्ष्म्यागतिर्हि युक्ततमा ।
तव किल निलिम्पभर्तुद्रुमसुमशोभेऽस्ति कृष्ण रसिकवर ॥ १८॥
सालोक्यं सामीप्यं लोकेऽस्मिन् पापकारिणां नियतम् ।
दुर्लभमपि दत्तं तन्मत्सदृशायाथ विठ्ठलोऽसि ततः ॥ १९॥
नखरोडुपैः परीतं चरणतरण्योर्युगं पुरा रचितम् ।
यद्यपि मग्नं मत्वा तथाविधं निश्चितं हि मामस्मिन् ॥ २०॥
स्मरणाभिधसूर्यस्तव संसाराब्धिं ह्यशूशुषच्छ्रेष्ठः ।
नामामृतबहुवृष्ट्या पङ्कं निःशेषतामगात्पश्चात् ॥ २१॥
तेन स्वच्छतरोऽहं सोत्कण्ठः स्वच्छवर्त्मना क्षिप्रम् ।
उपकण्ठं ते भूमन् सम्प्राप्तः किल दयामृताब्धवर ॥ २२॥
पतितोद्धरणजविरुदं लोकप्रख्यातमादितस्तस्मात् ।
एतच्छ्रमनिरतोऽभूर्नो चेद्धेत्वन्तरं न हि प्रकृते ॥ २३॥
श्रीवल्लभकल्पद्रुमफलरूपत्वं निजेच्छया यत्नात् ।
स्वीकृतमिह लोके ननु लोकोद्धाराय तत्प्रियाय भृशम् ॥ २४॥
षड्धर्मैर्निजरूपं पुत्रत्वे सप्तधाऽधुना कृत्वा ।
धरणीतलं सनाथं कृतवानसि शौरिसद्मनीव मुदा ॥ २५॥
राजन्यासुरवृन्दं प्राक्काले संहृतं त्वया नियतम् ।
पाखण्ड्यसुरविनाशः कृतोऽधुना विप्रविग्रहेण मुहुः ॥ २६॥
किञ्च स्वीयां भक्तिं शुद्धाद्वैतानुसारिणीं विपुलाम् ।
कर्तुं वेदोद्धारं वारं वारं कृतश्रमोऽसि भृशम् ॥ २७॥
साम्प्रतमिह याम्यायां सरणावतिपापकारिणां कृपया ।
वससि त्वं तान्नेतुं स्वं लोकं विठ्ठल प्रभो युक्तम् ॥ २८॥
सामोदस्नेहार्पणयोगात्स्नेहान्विताश्च सामोदाः ।
हृदये भवन्ति तस्मात्तेषां तस्मिन् हि कृष्णवर्त्माऽऽस्ते ॥ २९॥
पञ्चामृतैर्मितैरपि पूजां कुर्वन्ति ये जनास्तेभ्यः ।
पञ्चामृतमत्यन्तं ददासि दास्यं दयोदधे प्रार्थ्यम् ॥ ३०॥
पञ्चामृतलिप्तस्त्वं ह्यघटितघटनापटो विभास्येवम् ।
चन्द्रशतैः संवलितः सान्द्रपयोदः किमागतः पृथ्व्याम् ॥ ३१॥
तोयदकान्त नितान्तं तोयासारेण यः पुमान् भक्त्या ।
स्नपयति शीघ्रं तस्मै ददासि तोयदसमं वपुर्नियतम् ॥ ३२॥
घुसृणागुरुपङ्कैर्ननु कृत्वा त्वां पङ्किलं प्रयत्नेन ।
निष्पङ्काः सामोदा भवन्ति रागान्विता विनायासम् ॥ ३३॥
परिमितमथ वासः किल जनाद्गृहीत्वाऽल्पकैर्गुणै रचितम् ।
स्थूलैर्दिव्यगुणैर्युक्त्वानन्तवासोऽयि दीयते सततम् ॥ ३४॥
ये त्वां सालङ्कारं मणिभिः स्वर्णेन परिमितैर्मनुजाः ।
ननु तानलङ्करोषि द्युमणिसदृशान् सुवर्णकान् भक्त्या ॥ ३५॥
कृत्वा सुमनःपूजां क्षणिकामप्याप्नुवन्ति तेऽजस्रम् ।
सुमनोऽधिप मर्त्यास्ते सुमनस्त्वं द्विप्रकारकं चित्रम् ॥ ३६॥
भक्त्या तव पाददले दत्वा वृन्दादलं विबलमनुजः ।
दलयति दुरितदलान्यथ पद्मदलायतविलोचनाऽयि किल ॥ ३७॥
कृष्णत्वान्ननु कृष्णं चूर्णं भक्त्या समर्पयन्ति मुहुः ।
अत्रत्या मनुजास्ते चूर्णयितुं स्वीयकृष्णकर्माणि ॥ ३८॥
अमृतान्धोऽधिप जग्ध्वा परिमितमन्नं निजं हि मर्त्यं द्राक् ।
अमृताब्धौ स्थापयसे चित्रं सघृणोऽसि यत्नतः किं नु ॥ ३९॥
नीराजनैश्च दीपैः स्वयं प्रकाशं प्रकाशयन्त्येते ।
अज्ञांस्तानपि मलिनान् स्वयं प्रकाशान् करोषि तच्चित्रम् ॥ ४०॥
संसृतिचित्रमयूखोत्थितधूमैर्धूम्रवीक्षणान् मनुजान् ।
तेभ्यः स्वीकृतधूपो विमलदृशस्तान् करोषि करुणाब्धे ॥ ४१॥
प्राकृतभाषारचितैः स्तवैः स्तुतः स्तोतृमानुषायापि ।
अप्राकृताकृतिं त्विह दत्से क्षिप्रं क्षमं क्षमाजलधे ॥ ४२॥
एतावत्सम्प्रार्थ्यं दुरितोच्चयरूपिणा मया बहुधा ।
पतितसमुद्धृतिविरुदं नो विस्मार्यं क्षणान्तरेऽप्यार्य ॥ ४३॥
श्रीगोकुलोत्सवात्मजजीवनजीशर्मणा मुदा स्तोत्रम् ।
श्रीविठ्ठलस्य रचितं तुष्टस्तेनाऽस्तु स प्रभुः सततम् ॥ ४४॥
गोवर्धनगुरुचरणप्रसादतः प्राप्तविठ्ठलेशपुरः ।
कृतकृत्योऽहं भृत्यो भूवं तस्यैव लोकवन्द्यस्य ॥ ४५॥
रसशशधरनन्दक्षितिमितवर्षे विक्रमस्य सितपक्षे ।
पौषे सौम्यचतुर्थ्यां पूर्णमभूत्पुण्डरीकपुर एतत् ॥ ४६॥
इति जीवनजीगोस्वामिकृतं विठ्ठलस्तोत्रं २ सम्पूर्णम् ।
Proofread by PSA Easwaran