श्रीविठ्ठलस्तोत्रम्
श्रीमद्वल्लभसागरसमुदितकुन्दौघजीवदो नरः ।
विश्वसमुद्धृतदीनो जगति श्रीविठ्ठलो जयति ॥ १॥
मायावादः कुलनाशनकरणे प्रसिद्धदिननाथः ।
अपरःकृष्णावतारो जगति श्रीविठ्ठलो जयति ॥ २॥
श्रीमद्गिरिधरपदयुगसेवनपरिनिष्ठहृत्सरोजश्च ।
वंशस्थापितमहिमा जगति श्रीविठ्ठलो जयति ॥ ३॥
श्रीमद्गोकुलहिमरुचिरुचिकरलब्धैकसच्चकोरपदः ।
परिलसदद्भुतचरितो जगति श्रीविठ्ठलो जयति ॥ ४॥
शारदचन्द्रसमानःशिशिरीकृतदग्धसकललोकः ।
विद्याजितसुरवन्द्यो जगति श्रीविठ्ठलो जयति ॥ ५॥
गोवर्धनधरमिलनत्यागविधानेऽतिकातरः सुभगः ।
प्रकटितपुष्टिजभक्तिर्जगति श्रीविठ्ठलो जयति ॥ ६॥
यज्ञविधायकचेताः सकलप्रतिपक्षसिन्धुवडवाग्निः ।
कुण्डलशोभितगल्लो जगति श्रीविठ्ठलो जयति ।
पालितभक्तसमाजो व्रजभुवि विशदीकृतैकनवरत्नः ।
वासितगोकुलनगरो जगति श्रीविठ्ठलो जयति ॥ ८॥
नित्यं स्तोत्रवरं तद्भक्तिनियुक्तः पठन् स्वकीयाष्टकम् ।
परमपदं लभते स च यः किल निष्ठोऽपि विठ्ठलस्येदम् ॥
इति श्रीमद्देवकीनन्दनात्मजश्रीरघुनाथजीकृतं
श्रीविठ्ठलस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran