श्रीविठ्ठलार्तिक्यम्
जय जय विठ्ठल भगवन् करुणामयमूर्ते! ।
(१)धूर्तेतरसकृदुपनतसर्वेप्सितपूर्ते! । ध्रुव०॥
(२)श्रुतिशास्त्राचारानधिकारादतिमलिना
जीवास्तव दृष्टस्मृतवन्दितपदनलिनाः ।
ते साञ्जलिना दूरान्नमिताः खलु कलिना
कालेनापि कवलिताखिलजगता बलिना । जय जय०॥ १॥
भवताधिष्ठितमानशं भीमरथीतीरं
वैकुण्ठीकृतमिह नो रमयति कं धीरं ।
जडमपि कुरुषे सुपटुं वाचि यथा कीरं
शिरसि बिभर्षि घृतं ते येन चरणनीरम् । जय जय०॥ २॥
त्वां मेघमिव मयूरा दृष्ट्वा तव भृत्याः
प्रेमाश्रुप्लुतनयना भृशविस्मृतकृत्याः ।
व्यक्तं मङ्क्षु भवन्ति प्रमुदादृतकृत्या
मुक्तिवृणुते (३)तानुरुङ्गाय! मनोवृत्त्या । जय जय०॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीविठ्ठलार्तिक्यं सम्पूर्णम् ।
१। धूर्तेतराः सज्जनाः ।
२। श्रुतिशास्त्राचारेष्वनधिकारादधिकाराभावात् अतिमलिनाः स्त्रीशूद्रादयः ।
३। उरु गायं कीर्तियम्य तत्सम्बुद्धौ ।
Proofread by Rajesh Thyagarajan