श्रीविष्ण्वष्टकम्
शतानीकः -
ब्रह्मन्नपारे संसारे रागादिव्याप्तमानसः ।
शब्दादिलुब्धपुरुषः किं कुर्वन्नावसीदति ॥ १॥
श्री शौनकः -
स्वे महिम्नि स्थितं देवमप्रमेयमजं विभुम् ।
शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥ २॥
प्रमाणमतिगं ब्रह्म वेदान्तेषु प्रकाशितम् ।
आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति ॥ ३॥
अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः ।
ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति ॥ ४॥
अशनाद्यैरसंस्पृष्टं सेवितं योगिभिस्सदा ।
सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥ ५॥
क्ष्रराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम् ।
अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति ॥ ६॥
अतुल्यसखधर्माणं व्योमदेहं सनातनम् ।
धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥ ७॥
व्यासाद्यैर्मुनिभिस्सिद्धैः ध्यानयोगपरायणैः ।
अर्चितं भावकुसुमैः विष्णुं ध्यायन्न सीदति ॥ ८॥
विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम् ।
यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसाम्यताम् ॥ ९॥
एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।
पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् ॥ १०॥
इति श्रीविष्ण्वष्टकं सम्पूर्णम् ।