विष्णुवैभवम्
अथ विष्णुसंहितायां तृतीयः पटलः ।
सिद्धः-
अथ वक्ष्यामि सङ्क्षेपाद् विष्णोर्वैभवमुत्तमम् ।
येन ज्ञातेन शुद्धात्मा वैष्णवं पदमाप्नुयात् ॥ १॥ (ज्ञानेन)
देवतेह परं ज्योतिरेक एव परः पुमान् ।
स एव बहुधा लोके मायया भिद्यते स्वया ॥ २॥
पुरुषाख्यः स्वयं मायां प्रकृतिं व्यज्य स द्विधा ।
स्थितस्त्रिधा च सत्त्वादिगुणभेदात् प्रतीयते ॥ ३॥ (स्थितं त्रिधा)
विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्त्यन्तकृन्मतः । (विष्णुर्ब्रह्म)
मूर्तयो वासुदेवाद्याः धर्मज्ञानादिभेदतः ॥ ४॥
चतस्रस्तस्य विज्ञेया वेदवर्णयुगाश्रयाः ।
परमेष्ठी पुमान् विश्वो निवृत्तिः सर्व इत्यसौ ॥ ५॥
पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः ।
मनःश्रोत्रादिभिः षड्भिरङ्गैश्च हृदयादिभिः ॥ ६॥
षडक्षरात्मको नित्यमृतुभिश्चैष भिद्यते ।
सप्तव्याहृतिभिर्लोकैश्छन्दोभिः ऋतुभिस्तथा ॥ ७॥
सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः ।
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च ॥ ८॥
अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते ।
नारायणो नृसिंहश्च वराहो वामनस्तथा ॥ ९॥ (वाराहो)
रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्नवधा स्थितः । स्मृतः)
इन्द्रोऽग्निश्च यमश्चैव निरृतिवरुणस्तथा ॥ १०॥
वायुश्च सोम ईशानो ब्रह्मानन्तश्च ते दश ।
एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमासपैः ॥ ११॥ (एकादशेन्द्रियैश्चैव तथा)
स त्रयोदशधा चैव विश्वेदेवादिभिः स्मृतः ।
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः ॥ १२॥
तिथिभिश्चैव विज्ञेयः स पञ्चदशधा स्थितः ।
स्वरैः षोडशधा भिन्नो दिक्कोणावान्तरैस्तथा ॥ १३॥
मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः । (मूर्त्यन्तरैस्तु)
एकद्वित्रिचतुष्पञ्चषडाद्या विश्वतोमुखाः ॥ १४॥
मुखभेदाः समाख्यातास्तस्य विश्वात्मनो हरेः ।
ह्यादयो विश्वतःपाणेर्भुजभेदास्तथा स्मृताः ॥ १५॥
विविधाभरणा दीर्घा विविधायुधधारिणः ।
मूर्धानश्चैव तस्योक्ता लसन्मकुटकुण्डलाः ॥ १६॥ (लसन्मकरकुण्डलाः)
सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः ।
हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च ॥ १७॥
नीलः पीतश्च रक्तश्च नानावर्णश्च कीर्तितः ।
चन्द्रादित्यौ स्मृतौ तस्य वामदक्षिणलोचने ॥ १८॥
ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् ।
भ्रुवोर्मध्यं तथा रुद्रं सोमं च मनसि स्थितम् ॥ १९॥
एकादशास्य विज्ञेया रुद्राः कण्ठं समाश्रिताः ।
नक्षत्रग्रहताराश्च दशनास्तस्य कीर्तिताः ॥ २०॥
धर्माधर्मौ तथोर्ध्वाधरोष्ठसम्पुटमाश्रितो ।
इन्द्राग्नी तालुके तस्य जिह्वा चैव सरस्वती ॥ २१॥
दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः ।
वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः ॥ २२॥
ऋषयो रोमकूपस्थाः समुद्रा वस्तिगोचराः ।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः ॥ २३॥
१। ' स्तु' , २। ' करकु' ख। ग। पाठः।
जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंश्रिताः ।
गुह्येऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः ॥ २४॥ (वसवश्चोरुसंस्थिताः, वसवश्चोररस्थिताः)
नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः ।
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे ॥ २५॥
ऋतवो बाहुमूलस्था मासास्तस्य करेषु च ।
ललाटाग्रे स्थिताः सिद्धा भ्रुवोर्मेघाः सविद्युतः ॥ २६॥
यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा ।
राक्षसाश्चारणाश्चास्य जठरं तु समाश्रिताः ॥ २७॥ (जठरं च)
पितरः प्रेतकूश्माण्डवेतालप्रमथास्तथा । (वेतालाः प्रमथास्तथा)
पातालगोचराश्चास्य पादयुग्मे व्यवस्थिताः ॥ २८॥
पार्श्वयोस्तस्य विज्ञेया यज्ञा वैदिकतान्त्रिकाः ।
अग्निहोत्रादिकर्माणि वर्णाश्रमगतानि च ॥ २९॥
स्वाहास्वधावषट्काराः सर्वेऽस्य हृदये स्थिताः ।
ये वै सहस्रनामानो विष्णवः परिकीर्तिताः ॥ ३०॥
सहस्रमूर्तयस्तेऽत्र यथायोगमवस्थिताः ।
यतः सहस्रसङ्ख्यापि बहुसङ्ख्या प्रकीर्तिता ॥ ३१॥
मूर्तयश्चास्य सर्वास्ताः सङ्ख्यातीता ह्यनेकशः ।
देवादीनां च सर्वेषां मूर्तयोऽत्रैव कीर्तिताः ॥ ३२॥
तस्मात् सहस्रमूर्तिः सन् विष्णुः सर्वात्मको मतः । (सं विष्णुः)
दर्पणानां बहुत्वे तु दृश्यते नैकता यथा ॥ ३३॥
तद्वद् बहुत्वं मन्यन्ते विष्णोस्तस्याल्पचेतसः ।
यथाम्भसीन्दुबिम्बानि प्रतिशब्दाश्च नैकधा ॥ ३४॥
एकोऽप्यात्मा बहुष्वेवमित्याहुस्तत्त्वदर्शिनः ।
परमार्थमजानन्तो मूढास्त्वज्ञानमोहिताः ॥ ३५॥
क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च ।
ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः ॥ ३६॥
वैश्या यस्योरुतो जातास्तद्विष्णोः परमं पदम् ।
ईदृशं तं महाविष्णुमप्रमेयमनामयम् ॥ ३७॥
तत्प्रसादादृते वक्तुं ज्ञातुं वा नैव शक्यते ।
सर्वदेवाश्रयो विष्णुः सर्वे देवास्तदात्मकाः ॥ ३८॥
अशेषं वाङ्मयं चेदं लोकालोकं चराचरम् ।
व्याप्तं विष्णुशरीरेण वायुनेवाम्बरं सदा ॥ ३९॥
सर्वे विष्णुपरा देवाः सर्वशास्त्रेषु कीर्तिताः ।
यतो जाताखिला सृष्टिरन्ते तल्लयभागिनी ॥ ४०॥
ततोऽन्यः पुण्डरीकाक्षात् को विश्वं व्याप्य तिष्ठति ।
आधाराधेयभावेन द्विधावस्थो जनार्दनः ॥ ४१॥
सर्वभूतहितायासौं स्थितः सकलनिष्कलः ।
एवं चोभयरूपोऽसौ ज्ञेयो विष्णुः परात्परः ॥ ४२॥ (परावरः)
स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः ।
प्रभविष्णुर्महाविष्णुः सदाविष्णुश्च स स्मृतः ॥ ४३॥
स ह्यात्मा चान्तरात्मा च परमात्मा च स स्मृतः । (च कीर्तितः)
वैराजं लैङ्गिकं चैशं बहिरन्तश्च सर्वशः ॥ ४४॥
शब्दादिश्चिन्मयं रूपं जाग्रत्स्वग्नसुषुप्तिगम् । (शब्दार्थश्चिन्मयं)
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद् बुधः ॥ ४५॥
वेदे साङ्खये च योगे च पञ्चरात्रे च केवले । (केवलम्)
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः ॥ ४६॥
पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत् ।
अतीतानागतं चैव वर्तमानं च किञ्चन ॥ ४७॥
इन्द्रियाणीन्द्रियार्थाश्च भूतान्तःकरणानि च ।
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा ॥ ४८॥
नियतिश्च कला कालः सर्वमन्यच्च तन्मयम् ।
विष्णुरेव परो देवः सर्वभूतेष्ववस्थितः ॥ ४९॥
सर्वभूतानि चैवासौ न तदस्तीह यन्न सः ।
देवासुरादयो म्र्त्याः पशवश्च सरीसृपाः ॥ ५०॥
तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः ।
शैलाब्धिसरिदारामनगराणि सरांसि च ॥ ५१॥
लोकाश्चानन्तकालाग्निप्रेतावासोरगालयाः ।
सप्त भूरादयो ब्राह्मशैववैष्णवसंज्ञिताः ॥ ५२॥
सर्वे च विष्णुनैकेन व्याप्ता इत्यवधारय ।
वराहो भार्गवः सिंहो रामश्रीधरवामनाः ॥ ५३॥
अश्वकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम् ।
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः ॥ ५४॥
विश्वव्यापितयैवैष विष्णुत्वं प्राप्तवान् प्रभुः ।
(विश्वव्याप्तितयैवैष विष्णुत्वं प्राप्तवान् विभुः)
वसनात् सर्वभूतेषु वासुदेवत्वमेव च ॥ ५५॥
आदिमूर्तेः समाकृष्ट इति सङ्कर्षणः स्मृतः ।
प्रद्युम्नो द्युम्नपुष्टत्वादनिरुद्धोऽनिरोधनात् ॥ ५६॥
अच्युतोऽच्यवनाद् योगात् त्रिधामा धामभिस्त्रिभिः ।
विलोमेन्द्रियगम्यत्वाज्ज्ञेयोऽन्तर्याम्यधोक्षजः ॥ ५७
वैकुण्ठामलवर्णत्वाद् वैकुण्ठश्चायमुच्यते । (वेकुण्ठामलवर्णत्वाद्)
केशौ सर्गान्तयोरस्य स्त इत्येवैष केशवः ॥ ५८॥
नरनारीप्रकर्तृत्वान्नराणां चायनादयम् ।
नारायणो नरोत्थानामयनत्वादपां च सः ॥ ५९॥
माधवो मधुषूत्पत्त्या धवत्वाद् वा श्रियः स्मृतः ।
गां विन्दतीति गोविन्दो दुःखानां हरणाद्धरिः ॥ ६०॥
मध्वाख्यासुरघातित्वादुच्यते मधुसूदनः ।
त्रिभिः स्वैर्विक्रमैर्व्याप्त इति ज्ञेयस्त्रिविक्रमः ॥ ६१॥
वामनो ह्रस्वतायोगाच्छ्रीधरो वहनाच्छ्रियः ।
हृषीकाख्येन्द्रियेशत्वाद्धृषीकेशोऽयमीरितः ॥ ६२॥
पद्मं नाभेरभूद् यस्य पद्मनाभस्ततः स्मृतः ।
उदरालम्बि दामास्येत्युक्तो दामोदरश्च सः ॥ ६३॥
स रुद्रो रोदनाज्जातो ब्रह्मा बृंहणकर्मणा ।
इन्द्रश्च परमैश्वर्याद् वहनाद् वह्निरुच्यते ॥ ६४॥
यमः संयमनात् पुंसां वरणाद् वरुणस्तथा ।
वायुर्वानात सवात सोम ईशश्चेष्टो जनेष्वतः ॥ ६५॥
आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयतीति सः ।
इत्येवं गुणवृत्त्याह्यैः शब्दैरेकोऽप्यनेकधा ॥ ६६॥
प्रतीयतेऽम्भसीवेन्दुर्बहुत्वं नास्य तावता ।
यथा सर्वगतो वायुरतिसूक्ष्मो न दृश्यते ॥ ६७॥
तथा सर्वगतो विष्णुरज्ञैस्तज्ञैस्तु दृश्यते ।
इच्छाज्ञानक्रियाभेदान तिस्रो वै तस्य शक्तयः ॥ ६८॥
याभिर्द्वादशधा भिन्नाश्चतस्रस्तस्य मूर्तयः ।
सा तु शक्तिः परा सूक्ष्मा येच्छाख्या कामरूपिणी ॥ ६९॥
ओतं प्रोतं यया सर्वं दृश्यते सचराचरम् ।
द्विधा विभज्य सात्मानं क्रियाज्ञानप्रवर्तनम् ॥ ७०॥
प्रकरोति जगत् कृत्स्नं स्वतन्त्रमिव तद्वशात् ।
क्रियाशक्त्यापरो विष्णुः ज्ञानशक्त्या खगेश्वरः ॥ ७१॥
तं यज्ञपुरुषं प्राहुस्तपश्छन्दोमयं खगम् ।
इच्छाशक्त्या तु विज्ञेयः पुरुषो यः परोऽव्ययः ॥ ७२॥
ज्ञानपूर्वं प्रवर्तेत क्रिया कर्ता ततः पुनः ।
ज्ञानाधारा क्रिया ज्ञेया न चैका सम्प्रवर्तते ॥ ७३॥
क्रियाज्ञानप्रभेदेन शक्तिरेका परस्य नुः ।
द्विधा व्याप्य जगत् कृत्स्नं चराचरमवस्थिता ॥ ७४॥
शक्तिशक्तिमतोर्यस्मान्न भेदोऽस्ति परस्परम् ।
अभिन्नं तेन बोद्धव्यं क्रियाज्ञानद्वयं बुधैः ॥ ७५॥
एक एव त्रिधारूपो भेदेनानेन संस्थितः ।
क्रिया ज्ञानं तथेच्छा च त्रितयं चैकमेव हि ॥ ७६॥
उपचारः स्मृतो भेद एकस्यैव महात्मनः ।
खगोपेन्द्रशिवाश्चैवमभिन्नास्तेन कीर्तिताः ॥ ७७॥
इन्द्रियाणीन्द्रियार्थाश्च बुद्धेरेव विभूतयः ।
अहङ्कारविकाराश्च जलबुद्बुदवन्मताः ॥ ७८॥
गोष्वप्यनेकवर्णासु यथा क्षौरकवर्णता ।
तथाश्रयेषु भिन्नेष्वप्येकरूपमवेक्ष्यताम ॥ ७९॥
क्षणभङ्गि जगत् सर्वं विद्ध्येतत् सचराचरम् ।
तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम् ॥ ८०॥
तस्येश्वरस्य चैश्वर्यात् सर्वमेतत् प्रवर्तते ।
सेश्वरं हि जगत् कृत्स्नं नानीश्वरमिदं भवत् ॥ ८१॥
क्षेत्रज्ञस्य बहुत्वं च वदन्त्यज्ञानमोहिताः ।
न क्षेत्रज्ञबहुत्वं तु तत्त्वज्ञानां तु सम्मतम् ॥ ८२॥
उपाधिभेदाद् ये त्वाहुर्बहुत्वं परमात्मनः ।
संसरन्त्येव ते मूढा नाप्नुवन्ति परं पदम ॥ ८३॥
येषां विश्वसृजोऽप्यस्य सर्वज्ञत्वमनीप्सितम ।
तैः प्रमाणप्रमेयानां सम्बन्धो नोऽवधारितः ॥ ८४॥
संस्थानिनां समुत्पत्त्या जगतो जन्म यन्मतम् ।
तदीशकृतमन्योऽलं प्रकृतेर्न हि चोदने ॥ ८५॥
तस्मादीशकृतं विश्वं तदूढं तन्मयं तथा ।
तत्पालितं तदर्थ च तदीयं चेति गृह्यताम् ॥ ८६॥
तस्येदृशस्य देवस्य प्रभावो नन्वदुर्गमः ।
स्वयमेव स तं वेद यदि वा न तथा श्रुतेः ॥ ८७॥
यतो जाताखिला सृष्टिरियं को वेद तत् परम् ।
अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः ॥ ८८॥
तथापि महिमोद्देशस्तस्योक्तोऽचिन्त्यरूपिणः ।
वक्ति यन्महिमानन्त्यं न ते विष्णविति श्रुतिः ॥ ८९॥
इति विष्णुसंहितायां विष्णुवैभवं नाम तृतीयः पटलः ॥
Proofread by Suba Ramesh, NA