नारदाय शौनककृतविष्णुस्तुतिः
ऋषय ऊचुः ॥
कथं सनत्कुमारस्तु नारदाय महात्मने ।
प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥ १॥
कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ ।
हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥ २॥
सूत उवाच ॥
सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः ।
निर्ममा निरहङ्काराः सर्वे ते ह्यूर्ध्वरेतसः ॥ ३॥
तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः ।
सनत्कुमारश्च विभुः सनातन इति स्मृताः ॥ ४॥
विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः ।
सहस्रसूर्यसङ्काशाः सत्यसन्धा मुमुक्षवः ॥ ५॥
एकदा मेरुशृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् ।
इष्टां मार्गेऽथ ददृशुः गङ्गां विष्णुपदीं द्विजाः ॥ ६॥
तां निरीक्ष्य समुद्युक्ताः स्नातुं सीताजलेऽभवन् ।
एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥ ७॥
आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रातॄन्स्वकाग्रजान् ।
तान्दृष्ट्वा स्नातुमुद्युक्तान्नमस्कृत्य कृताञ्जिलिः ॥ ८॥
गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः ।
नारायणाच्युतानन्त वासुदेव जनार्दन ॥ ९॥
यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते ॥
पद्माक्ष कमलाकान्त गङ्गाजनक केशव ।
क्षिरोदशायिन्देवेश दामोदर नमोऽस्तु ते ॥ १०॥
श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसङ्कर्षण वासुदेव ।
अजानिरुद्धामलरुङ्मुरारे त्वं पाहि नः सर्वभयादजस्रम् ॥ ११॥
इत्युच्चरन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् ।
उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥ १२॥
तेषां चापि तु सीताया जले लोकमलापहे ।
स्नात्वा सन्तर्प्य देवर्षिपितॄन्विगतकल्मषाः ॥ १३॥
उत्तीर्य्य सन्ध्योपास्यादि कृत्वाऽऽचारं स्वकं द्विजाः ।
कथां प्रचक्रुर्विविधाः नारायणगुणाश्रिताः ॥ १४॥
कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे ।
चकार नारदः प्रश्नं नानाख्यानकथान्तरे । १५॥
नारद उवाच ।
सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः ।
यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥ १६॥
लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् ।
पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥ १७॥
येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ।
गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥ १८॥
कथं च त्रिविधं कर्म सफलं जायते नृणाम् ।
ज्ञानस्य लक्षणं ब्रूत तपसश्चापि मानदाः ॥ १९॥
अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ॥
एवमादीनि गुह्यानि हरितुष्टिकराणि च ।
अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ २०॥
शौनक उवाच ॥
नमः पराय देवाय परस्मात्परमाय च ।
परावरनिवासाय सगुणायागुणाय च ॥ २१॥
अमायायाऽऽत्मसंज्ञाय मायिने विश्वरूपिणे ।
योगीश्वराय योगाय योगगम्याय विष्णवे ॥ २२॥
ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे ।
ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसम्पदे ॥ २३॥
ध्यानाय ध्यानगम्याय ध्यातृपापहराय च ।
ध्यानेश्वराय सुधिये ध्येयध्यातृस्वरूपिणे ॥ २४॥
आदित्यचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः ।
यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥ २५॥
यो ब्रह्मरूपी जगतां विधाता स एव पाता द्विजविष्णुरूपी ।
कल्पान्तरुद्राख्यतनुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि ॥ २६॥
यन्नामसङ्कीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः ।
विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥ २७॥
शिवस्वरूपी शिवभक्तिभाजां यो विष्णुरूपी हरिभावितानाम् ।
सङ्कल्पपूर्वात्मकदेहहेतुस्तमेव नित्यं शरणं प्रपद्ये ॥ २८॥
यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् ।
देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥ २९॥
लेभेऽवतीर्योग्रनृसिंहरूपी यो दैत्यवक्षः कठिनं शिलावत् ।
विदार्य संरक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं नमामि ॥ ३०॥
व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् ।
जगद्विधातारमकर्मकं च परं पुराणं पुरुषं नतोऽस्मि ॥ ३१॥
ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसङ्घैः ।
स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मानमहं भजामि ॥ ३२॥
यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै ।
यस्मिन्नेष्यति पश्चाच्च तमस्मि शरणं गतः ॥ ३३॥
यः स्थितो विश्वरूपेण सङ्गीवात्र प्रतीयते ।
असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥ ३४॥
हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् ।
न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ॥ ३५॥
सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् ।
सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥ ३६॥
दधार मन्दरं पृष्ठे नीरोदेऽमृतमन्थने ।
देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥ ३७॥
दंष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् ।
तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्म्यहम् ॥ ३८॥
प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् ।
विदार्य हतवान्यो हि तं नृसिंहं नतोऽस्म्यहम् ॥ ३९॥
लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः ।
आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतोऽजितम् ॥ ४०॥
हैहयस्यापराधेन ह्येकविंशतिसङ्ख्यया ।
क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ॥ ४१॥
आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ।
घ्नतवान्राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ॥ ४२॥
मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च ।
सञ्जहार कुलं स्वं यस्तं श्रीकृष्णमहं भजे ॥ ४३॥
भूम्यादिलोकत्रितयं सन्तृप्तात्मानमात्मनि ।
पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥ ४४॥
युगान्ते पापिनोऽशुद्धान्भित्त्वा तीक्ष्णसुधारया ।
स्थापयामास यो धर्मं कृतादौ तं नमाम्यहम् ॥ ४५॥
एवमादीन्यनेकानि यस्य रूपाणि पाण्डवाः ।
न शक्यं तेन सङ्ख्यातुं कोट्यब्दैरपि तं भजे ॥ ४६॥
महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः ।
देवासुराश्च मनवः कथं तं क्षुल्लको भजे ॥ ४७॥
यन्नामश्रवणेनापि महापातकिनो नराः ।
पवित्रतां प्रपद्यन्ते तं कथं स्तौमि चाल्पधीः ॥ ४८॥
यथाकथञ्चिद्यन्नाम्नि कीर्तिते वा श्रुतेऽपि वा ।
पापिनस्तु विशुद्धाः स्युः शुद्धा मोक्षमवाप्नुयुः ॥ ४९॥
आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः ।
पश्यन्ति यं ज्ञानरूपं तमस्मि शरणं गतः ॥ ५०॥
साङ्ख्याः सर्वेषु पश्यन्ति परिपूर्णात्मकं हरिम् ।
तमादिदेवमजरं ज्ञानरूपं भजाम्यहम् ॥ ५१॥
सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् ।
सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥ ५२॥
यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् ।
दशाङ्गुलं योऽत्यतिष्ठत्तमीशमजरं भजे ॥ ५३॥
अणोरणीयांसमजं महतश्च महत्तरम् ।
गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥ ५४॥
ध्यातः स्मृतः पूजितो वा श्रितः प्रणमितोऽपि वा ।
स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ ५५॥
इति स्तुवन्तं परमं परेशं हर्षाम्बुसंरुद्धविलोचनास्ते ।
मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रमुदं प्रजग्मुः ॥ ५६॥
य इदं प्रातरुत्थाय पठेद्वै पौरुषं स्तवम् ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ ५७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे
नारदाय शौनककृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ॥ २॥
Proofread by PSA Easwaran psaeaswaran at gmail.com