विष्णुस्तुतिः
मुराराते विष्णो हरमुखसुराराध्य भवतो
धरायां नास्त्यन्यो भवजलधिपारं गमयितुम् ।
दुराचारान् वाऽस्मानव गुरुवरानुग्रहबलात्
जरादूराधारामयहर निरालम्बनदय ॥ १॥
अहं सक्तः पोते भवजलधिपोते त्वयि न वै
रतः पाके लक्ष्मीरमण तव पाके न हि रतः ।
तथाऽप्याचार्याणां सुखपदजुषां सन्मतरत-
स्वृतज्ञानार्यस्याविनयमपिनेयं त्वमव माम् ॥ २॥
रमा कामारातिः कमलभवनः श्यामलतनो
यदाऽशक्ताः स्तोतुं जडमतिरहं क्व व्र जपते ।
तथाऽप्यर्घ्यम् सिन्धोरिव तव भवत्वीश करुणा-
समुद्रैषा वाणी तव हृदयतोषाय सततम् ॥ ३॥
न जाने श्रीजाने किमपि सवने नापि नमने
रतः स्नाने दाने रघुकुलजने हृन्नियमने ।
धने याने गानेऽवनिपसभमाने च भवने
रतो हीने स्थानेऽवसि तदपि मानैककरुण ॥ ४॥
जना दीना नानावृजिनशमनाम्नायमनना-
द्विना वीनासीनाधिगतिरिह नासौख्यमथन ।
धनाधीना हीना भुवनभवनात्रेयवदना
घनानूना ज्ञानापहतमधुनायातमधुना ॥ ५॥
नरान् स्तुत्वा नीचानुदरभरणासक्तहृदयो
दयोदाराधाराऽमरवरनुत त्वत्पदयुगम् ।
न चावन्दे विष्णो तदपि भववारीश पतितं
पते माया मायावरणहरणाद्रक्ष नृहरे ॥ ६॥
हरे नानायोनिप्रभवननिदानान्यनुदिनम्
घनाभैनांसि श्रीवनजनयनानेकगुणक ।
क्षमस्व क्षेमं मे सश दिश दशस्यन्दनजने
शशाङ्कास्य त्वं मे भवजनिततापं परिहर ॥ ७॥
हरे राजानोऽमी स्वभटतनयान् दोषनिलयान्
गुणैर्हीनान् सौवा इति मतियुताः पान्ति सदयाः ।
मदार्या आबाल्यं तव भजनसंसक्तहृदया
जहुर्निद्रां तेषां रघुवर विनेयोऽस्म्यवतु माम् ॥ ८॥
वयं प्रातःस्नानं रघुपनमनं सुप्रवचनम्
गुरुध्यानं पद्मारमणभजनं नापि मननम् ।
अकार्ष्मालं श्रीलं दशवदनकालं गततुलं
रमालोलम् यामः शरणममलं वीतशमलम् ॥ ९॥
गुरुस्वान्तस्थान्यागणितगुणमाणिक्यनिकर-
च्छविव्रातोपेतामितसुख मखान्नेडित हरे ।
नमः श्रीमन् व्यास स्वजनदुरिताहार्यविधुर
त्वदीये वायौ मे भवति भवताद्भक्तिरतुला ॥ १०॥
रमाराम श्रीमन्नमलकमलासोमनत भो
नमामो हेमाभामितमहिम हे माधव न ते ।
समो भूमा भूमौ शमदमविमानादिनियम-
श्रमस्तोमप्रेमन्नव मलहिमानीमिहिर भोः ॥ ११॥
विरागासक्तिस्ते वयमज पुरागाररमणी
धरागानासक्ता न च पदपरागादरयुताः ।
पुरागारात्यादिप्रणुत वितरागाधमहिमन्
सुरागावा भूतीः सुमतिमुखरा गाधिजसख ॥ १२॥
घनोपमतनो मम त्वयि मनो न सक्तं जनो
विनिन्दति धनोन्मदो यदि तनोषि न त्वम् दयाम् ।
स्वनोगतमनोहरागम वनोद्भवाभं पदं
विनोत्तम गतिश्च का जगदनोद्धरैनोगणात् ॥ १३॥
मनागपि विना हरे तव दयाम् न शं कस्यचित्
धनाधिपजनार्जने रतिमतां कथं सा भवेत् ।
घनान् सुपवना इव त्वमज कल्मषं दूरतो
विनाश्य वसनाशनादरमवेश नारायण ॥ १४॥
हरे तव पदस्मृतिं सकलजन्मदोषापहाम्
वदन्ति निगमा रमारमण मामकाघं कुतः ।
न हन्ति न हि सन्ति किं मयि गुरुप्रसादादयो
दयोदधिवयोधिपासन भियोऽरितोऽपाकुरु ॥ १५॥
हरे भरतसोदरे दयितसागरे श्रीधरे
मनश्चरतु भासुरे सकलदोषदूरेऽजरे ।
वरे दनुजभीकरे बहुगुणाकरे मध्वरे
मयीश परमादरे तनु दयां भवेनातुरे ॥ १६॥
जगज्जनकजानकीकमनभीमसोमाऽदिमा-
मरव्रजसुपूजित वृजिननाशन श्रीश नः ।
आव प्रवणवर्गवत्तव निसर्गभक्तानलम्
सुभार्गवतनो तपोहरण भर्गजप्याभिध ॥ १७॥
द्विपाधिपमपाः पुराऽजित विपासनोऽतित्वरः
कृपापरवशस्तथा द्रुपदजामुपासद् व्रजम् ।
क्षपाचरविपाटने पटुमपास्तदोषं वयं
ह्यपावृतमुपास्महे विषयलोलुपानप्यव ॥ १८॥
मया किमपि साधनं न कृतमीश वित्तार्जने
सदारतिमता रमारमण सत्यधीसन्नत ।
दयालुरिति वैदिकी प्रथितिरस्ति या तां हरे
न नाशय घनाशय प्रशमयामयं भौतिकम् ॥ १९॥
नुतिं हि करवाम नो दिशतु दीदिविं वामनो
रघूत्तम न वा मनो भवतु चञ्चलं वा मनो ।
हरे दितिजनाम नो लवनकौशलावामनो
न वामनि भवामनो हर शरीरिका वामनो ॥ २०॥
अये पुरुदयेऽव्यये सुखमये श्रिये संश्रये
धिये भुवनजालये शुभजयेभ्यताप्राप्तये ।
वयेऽरणमनामये रचितभक्तलोकाभये
मयेप्सितमदश्शये तव न किं मुरारिप्रिये ॥ २१॥
विरुद्धगतिरीशिता महदणुत्वयोराश्रयः
कथं त्वति ममाभवत् प्रतिदिनं महाद्वापरः ।
हिरण्यकशिपोः सुते नरकनन्दने यद्दयाम्
विधाय ऋतधीसुते मयि तनोषि नो तद्गतः ॥ २२॥
अजामिलगजाधिपद्रुपदजास्त्वया पालिता-
स्त्वहं तव भटो न किं किमवने गतं पाटवम् ।
गुणा मयि नहीति वा रघुपते दयाम् नाचरः
शिलाकलुषनाशनेऽकृत किलाबलासादनम् ॥ २३॥
महाभिषगभूत् पुरा जलनिधिर्विधेराज्ञया
निजापकणपातनादपघने तथा शन्तनुः ।
कुतोऽलसमतिर्वृथा भव भवामये त्वं महा-
भिषग्वपुषि मे क्षिपंस्तव हि शाम्बरं शं तनुः ॥ २४॥
निन्दावन्दारुलोकानवनमुरुदय तद्विधानामुदारा
मन्दा नन्दा च भर्गप्रभृतिसुरवराराध्यपादारविन्द ।
मन्दावृन्दावनक्ष्माविहरण करुणालेशतः पाहि जातं
नन्दा वन्दामहे त्वां गुरुवरहृदयक्षीरजस्थम् मुकुन्दम् ॥ २५॥
सीते मातेव पोते गुणलवरहिते मय्यविद्याविभूते
पोते देवैः परिते कुरु गुणभरिते काऽनुकम्पा समाते ।
ख्याते वातेन गीते परिहृतदुरिते सन्नते भूमिजाते
भक्तिं लक्ष्मीनिकेते गुरुहृदयगते देहि मे त्वत्समेते ॥ २६॥
वायो श्रेयोऽपि रायो हरिरिति सुधियो देहि भूयो नमस्ते
प्रेयो हेयो हि कायो न च बलनिचयो भूरयो नारयो वै ।
प्रेयो ज्यायोऽनपायोर्जितसुजनदयोदार योगिप्रियोमा
ध्येयोपेयोतदेयोनृपसभविजयो नामदो हेऽब्जयोने ॥ २७॥
सेवे देवेश भावे मम वस गुरवे ते नमःश्रीशभावे
सृत्यब्धेभूर्यमीवे द्युतिविजितरवे स्याद्दयाऽतीवजीवे ।
सौवे हे वेदरावेडितचरण भवे मग्नमुद्धृत्य दासं
शैवे दैवे त्वयीने रतिमतिविभवे मामवेष्टप्रदातः ॥ २८॥
अधुना स धुनातु भूतबन्धम् मधुनाशी मधुना धिया च पूर्णः
मधुना विधुना समानवक्त्रो विधिनाथो विधिना समर्चितो मे ॥ २९॥
स्मृतिस्त्वनुगता हरेर्मतित एव नष्टा भवे-
न्नुतिर्न रचिता मया न च नतिर्न वापि स्मृतिः ।
मतिर्मम न विद्यते यतिपते भवन्तं विना
श्रुतिप्रभृतिसाधनैः श्रुतिततीडितं दर्शय ॥ ३०॥
हरे सुरेश रेखया नतं नुतं च तं ततम् ।
भजे निजे गजे शिवक्रिया दया मया दरे ॥ ३१॥
हरे स्मृतिर्न चास्ति चेत् कथं ममागसाम् स्मृतिः
कृतं स्मरेति च त्रयी यदाह वेत्सि तन्न किम् ॥ ३२॥
हरे तव प्रियात्मजस्नुषानपात्तदात्मजाः ।
मया दयार्थमादृता वदन्ति किं न तेऽन्तिकम् ॥ ३३॥
तात श्रीराममूर्तीरमलकमलतोऽभ्यर्च्य मातुर्न शिष्टं
कञ्जं कञ्जालयाया इति यदमनिषि प्राददाः कञ्जमेकम् ।
तत्किं जायादयातः किमु मयि दयया नैव जानेऽहमज्ञः
स्वामिन् श्रीसत्यबोधव्रतिवरहृदयाम्भोजवासिन् वद त्वम् ॥ ३४॥
पुरा पुरारिपालने त्वरा मुरारिणा कृता ।
धरामरावने न किम् पटुः परापराजितः ॥ ३५॥
इन्दिरा सत्यबोधार्यहृदयाम्भोजमन्दिरा ।
इन्दिदिरान् स्वपादाब्जेऽव्यान्नोभाजितचन्दिरा ॥ ३६॥
प्रिया यस्य माया क्रियाऽम्नायमेया
भिया यस्य माया विनष्टाऽन्यदीया ।
नयात्तम् जयार्थं दयालुम् हयास्यम्
भयार्ताश्च यामः श्रियायद्य विष्णुम् ॥ ३७॥
नेता यः कमलालयादिजगतो माता यथा सर्वतः
पाता सत्यमतिव्रतीशहृदयाब्जातालयो यश्च तम् ।
भूताधीशशचीपतिप्रभृतिभिः पीतामृतैरादृतं
धूताशेषभयं नमाम सततं सीतापतिम् राघवन् ॥ ३८॥
घर्मसूक्तव्याकरणधर्मप्रीतो रघूत्तमः
कर्मपौर्वं पराकृत्य शर्म मौक्तं प्रयच्छतु ॥ ३९॥
समुद्रसूत्रव्याख्यानसमुद्-रघुपतिर्हि नः ।
समुद्रजस्कान् सुक्षीरसमुद्रवसतीन्क्रियात् ॥ ४०॥
कमला महिला सुतोऽब्जजातो
ननु पौत्रः पुरशात्रवोऽन्यलेखाः ।
तव यस्य भटा नमत्किरीटाः
पुरुटाभाम्बर संस्तुवीत कस्त्वाम् ॥ ४१॥
न मे वपुषि पाटवं न नयने न शब्दग्रहे
सिता मम तनूरुहाः प्रशिथिला द्विजानां ततिः ।
तथाषि विषयेऽशुभे चरति मे मनः श्रीहरे
त्वदीयहृदयं विना नहि निदानमस्त्यत्र वै ॥ ४२॥
आम्नायोद्धार भूभृद्धर धरणिधर श्रीहिरण्यासुरारे
खर्वाङ्ग क्षत्रगोत्रापह दशरथभूः कंसशत्रो विनेत्र ॥ ४३॥
आर्विन् शर्वेशपूर्वामरगणविनुतानन्तरूपक्रियावन्
व्यास श्रीसत्यबोधाह्वयगुरुहृदयावास विष्णो नमस्ते ॥ ४४॥
मध्वार्यमीडे यो मुक्तेरध्वानं मामदर्शयत् ।
विध्वाननमुपन्याससुध्वानजितवादिनम् ॥ ४५॥
भागिरथिगुणान्वक्तुं भोगीशो बहुलाननः ।
वागीशोऽपि क्षमो नैव हे गीर्वाणतरङ्गिणि ॥ ४६॥
अङ्गीकृतानङ्गरिपूत्तमाङ्गं संगीतचर्यामघराशिभङ्गाम् ।
भङ्गाग्र्यदूरीकृतसत्तुरङ्गाम् गङ्गामहं नौमि लसत्तरङ्गाम् ॥ ४७॥
भेरी गौरीशरामस्य नारीकृतशिलस्य या ।
वैरी न सहते तां तं दूरीकुरु तव स्थलात्
विष्णुप्रीत्यै चरको नैव किं तु
व्यर्थं नीचान्करकस्सन्नुपासे ।
आगःपूगान्मामकाद्दुःखहेतोः
हेयात्पायाच्छ्रीनिवासाख्यदैवम् ॥ ४८॥
इति श्रीसत्यसन्धतीर्थकृता विष्णुस्तुतिः समाप्ता ।
Proofread by Daya Aithal