शिवेन कृतं विष्णुस्तोत्रम्
हर उवाच-
नमस्ते देवतानाथ नमस्ते गरुडद्ध्वज ।
शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते ॥ १॥
नमस्ते निर्गुणानन्त अप्रतर्क्याय वेधसे ।
ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते ॥ २॥
रजोयुक्त नमस्तेऽस्तु ब्रह्ममूर्ते सनातन ।
त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम् ॥ ३॥
सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज ।
प्रजापाल महाबाहो जनार्द्दन नमोऽस्तु ते ॥ ४॥
तमोमूर्ते अहं ह्येष त्वदंशक्रोधसम्भवः ।
गुणाभियुक्त देवेश सर्वव्यापिन् नमोऽस्तु ते ॥ ५॥
भूरियं त्वं जगन्नाथ जलाम्बर हुताशनः ।
वायुर्बुद्धिर्मनश्चापि शर्वरी त्वं नमोऽस्तु ते ॥ ६॥
धर्मो यज्ञस्तपः सत्यमहिंसा शौचमार्जवम् ।
क्षमा दानं दया लक्ष्मीर्ब्रह्मचर्यं त्वमीश्वर ॥ ७॥
त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः ।
उपवेदा भवानीश सर्वोऽसि त्वं नमोऽस्तु ते ॥ ८॥
नमो नमस्तेऽच्युत चक्रपाणे नमोऽस्तु ते माधव मीनमूर्ते ।
लोके भवान् कारुणिको मतो मे त्रायस्व मां केशव पापबन्धात् ॥ ९॥
ममाशुभं नाशय विग्रहस्थं यद्ब्रह्महत्याऽभिभवं बभूव ।
दग्द्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते ॥ १०॥
इति वामनपुराणे तृतीयाध्यायान्तर्गतं शिवेन कृतं
विष्णुस्तोत्रं समाप्तम् ॥
वामनपुराण अध्याय ३ १४-२३
Encoded by D.K.M. Kartha and proofread by P.S.A. Easwaran