शङ्करकृतं विष्णुस्तोत्रम्
श्रीशङ्कर उवाच -
नमस्ते परमानन्द नमो नीलाभलोचन ।
नमस्ते हरये तुभ्यं त्रयीमूर्तिधराय च ॥ ४३॥
नीलजीमूतवपुषे नमस्ते लोकनायक ।
देवानां वरदाताऽसि प्रसन्नार्तिहर प्रभो ॥ ४४॥
एकाम्रकनिवासाय नमस्ते पीतवाससे ।
त्रिगुणैर्बाह्यरूपाय शङ्खचक्रावधारिणे ॥ ४५॥
त्वमेको जगतामादिः कारणानां च कारणम् ।
भक्तबन्धो जगन्नाथ करुणामयसागर ॥ ४६॥
तव स्थानानि रम्याणि सन्ति देव सहस्रशः ।
एकाम्रे गुप्तरूपं च न जानामि कथं प्रभो ॥ ४७॥
मामुवाच पुरा विष्णो त्वं ममार्द्धशरीरकः ।
इदानीं तु कथं राज्यं कृतवानसि केशव ॥ ४८॥
नारदस्तव भक्तस्तु शय्या ते भुजगेश्वरः ।
केवलं तौ हि जानीतः कृपा नास्ति मयि प्रभो ॥ ४९॥
गोपीनां प्रेमभक्तानां दत्ता भक्तिस्त्वया प्रभो ।
सनकाद्याश्च तिष्ठन्ति ईश्वरेच्छा निरङ्कुशाः ॥ ५०॥
एकाम्रविपिने रम्ये तिष्ठन्ति परमेश्वर ।
योगनिद्रां समाश्रित्य लोचनार्द्धौ च मुद्रितौ ॥ ५१॥
इदानीं करुणां कृत्वा देहि मे जगदीश्वर ।
स्वस्थानं देहि मे स्थातुमागतोऽहं तवान्तिके ॥ ५२॥
इति कपिलपुराणे एकादशोऽध्यायान्तर्गतं शङ्करकृतं
विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran