श्रीविष्णुस्तवनम्
मेघश्यामं पीत-कौशेय-वासं
श्रीवत्साङ्गं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ १॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भव-भय-हरं सर्वलोकैकनाथम् ॥ २॥
सशङ्खचक्रं -सकिरीट-कुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षस्थलशोभिकौस्तुभश्रियं
नमामि-विष्णुं शिरसा चतुर्भुजम् ॥ ३॥
क्षीरोदन्वत्प्रदेशे शुचि-मणि-विलसत्-सैकतैर्मौक्तिकानां
माला-क्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रै-रभ्रै-रदभ्रै-रुपरिविरचितै-र्मुक्त-पीयूष-वर्षै-
रानन्दी नः पुनीयादरि-नलिनदगदा-शङ्खपाणिर्मुकुन्दः ॥ ४॥
भूः पादौ यस्य नाभिर्वियदसुर-निलश्चन्द्र-सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वासोऽयमब्धिः ।
अन्तस्थं यस्य विश्वं सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यै-
श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ ५॥
भव-जलधि-गतानां द्वन्द्ववाताहतानां
सुत-दुहितृ-कलत्र-त्राण-भारावृतानाम् ।
विषम-विषयतोये मज्जतामप्लवानां
भवतु शरणमेको विष्णुपोतो नराणाम् ॥ ६॥
यत्कीर्तनं यत्स्मरणं यदीक्षणं
यद्वन्दनं यच्छ्रवणं यदर्हणम् ।
लोकस्य सद्यो विधुनोति कल्मषं
तस्मै सभद्रश्रवसे नमो नमः ॥ ७॥
रजोजुषे जन्मनि सत्त्ववृत्तये
स्थितौ प्रजानां प्रलये तमस्पृशे ।
अजाय सर्ग-स्थिति-नाशहेतवे
त्रयीमयाय त्रिगुणात्मने नमः ॥ ८॥
इति पण्डितश्रीराजबलीत्रिपाठिना सङ्कलितं विष्णुस्तवनं समाप्तम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com